________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 110 // प्रथममध्ययनं द्रुमपुष्पिका, सूत्रम् 3 आहारग्रहणविधिः नियुक्तिः 117 द्रव्यभावविहङ्गमप्रतिपादनम्। लोक इत्यनेन समयक्षेत्र एव नान्यत्र, किं?- शान्तिः- सिद्धिरुच्यते तां साधयन्तीति शान्तिसाधवः, तथा चोक्तं नियुक्तिकारेण-संति विजंतित्ति य संतिं सिद्धिं व साहेति इदं व्याख्यातमेव / विहंगमा इव भ्रमरा इव पुष्पेषु, किं?- दानभक्तैषणासु रताः दानग्रहणाद्दत्तं गृह्णन्ति नादत्तम्, भक्तग्रहणेन तदपि भक्तं प्रासुकंन पुनराधाकर्मादि, एषणाग्रहणेन गवेषणादित्रयपरिग्रहः, तेषु स्थानेषु रताः सक्ता इति सूत्रसमासार्थः। अवयवार्थं सूत्रस्पर्शिकनियुक्त्या प्रतिपादयति-तत्रापि च विहङ्गमं व्याचष्टेस द्विविधः-द्रव्यविहङ्गमो भावविहङ्गमश्च / तत्र तावद्रव्यविहङ्गमं प्रतिपादयन्नाह नि०-धारेइ तं तु दव्वं तं दव्वविहङ्गमं वियाणाहि।भावे विहंगमो पुण गुणसन्नासिद्धिओ दुविहो // 117 // धारयति आत्मनि लीनं धत्ते तत्तु द्रव्य मित्यनेन पूर्वोपात्तं कर्म निर्दिशति, येन हेतुभूतेन विहङ्गमेषूत्पत्स्यत इति, तुशब्द एवकारार्थः, अस्थानप्रयुक्तश्च, एवं तु द्रष्टव्यः- धारयत्येव, अनेन च धारयत्येव यदा तदा द्रव्यविहङ्गमो भवति नोपभुङ्क्त इत्येतदावेदितं भवति,द्रव्यमिति चात्र कर्मपुद्गलद्रव्यं गृह्यते, न पुनराकाशादि, तस्यामूर्त्तत्वेन धारणायोगात्, संसारिजीवस्य च कथञ्चिन्मूर्त्तत्वेऽपि प्रकृतानुपयोगित्वात्, तथाहि- यदसौ भवान्तरं नेतुमलं यच्च विहङ्गमहेतुतां प्रतिपद्यते तदत्र प्रकृतम्, न चैवमन्यः संसारिजीव इति, तं द्रव्यविहङ्गममित्यत्र यत्तदोर्नित्याभिसंबन्धादन्यतरोपादानेनान्यतरपरिग्रहादयं वाक्यार्थ उपजायते-धारयत्येव तद्रव्यं यस्तं द्रव्यविहङ्गममिति, द्रव्यंच तद्विहङ्गमश्चस इति द्रव्यविहङ्गमः, द्रव्यंजीवद्रव्यमेव, विहङ्गमपर्यायेणाऽऽवर्तनाद्, विहङ्गमस्तु कारणे कार्योपचारादिति, तं विजानीहि अनेकैः प्रकारैरागमतो ज्ञाताऽनुपयुक्त इत्येवमादिभिर्जानीहि भावे विहङ्गम इत्यत्रायं भावशब्दो बह्वर्थः, क्वचिद्रव्यवाचकस्तद्यथा नासओ भुवि भावस्स, सद्दो हवइ केवलो ®नासतो भुवि भावस्य शब्दो भवति केवलः / // 110 //