SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 111 // भावस्य- द्रव्यस्य वस्तुन इति गम्यते, क्वचिच्छुक्लादिष्वपि वर्त्तते-जं जं जे जे भावे परिणमइ इत्यादि यान् 2 शुक्लादीन् / प्रथममध्ययन भावानिति गम्यते, क्वचिदौदयिकादिष्वपि वर्तते यथा-ओदइए ओवसमिए इत्याद्युक्त्वा छव्विहो भावलोगो उ औदयिकादय द्रुमपुष्पिका, सूत्रम् 3 एव भावा लोक्यमानत्वाद् भावलोक इति, तदेवमनेकार्थवृत्तिः सन्नौदयिकादिष्वेव वर्तमान इह गृहीत इति, भवनं भावः आहारग्रहणभवन्त्यस्मिन्निति वा भावः तस्मिन् भावे- कर्मविपाकलक्षणे, किं?-'विहङ्गमो वक्ष्यमाणशब्दार्थः, पुनःशब्दो विशेषणे, विधिः नियुक्तिः 118 न पूर्वस्मादत्यन्तमयमन्य एव जीवः, किंतु स एव जीवस्त एव पुद्गलास्तथाभूता इति विशेषयति, गुणश्च संज्ञा च गुणसंज्ञे एकप्रकारेणगुण:- अन्वर्थः संज्ञा पारिभाषिकी ताभ्यां सिद्धिः गुणसंज्ञासिद्धिः, सिद्धिशब्दः सम्बन्धवाचकः, तथा च लोकेऽपि सिद्धिर्भवतु भावविहङ्गम स्वरूपः। इत्युक्ते इष्टार्थसम्बन्ध एव प्रतीयत इति, तया गुणसंज्ञासिद्ध्या हेतुभूतया, किं?- द्विविधो द्विप्रकारः, गुणसिद्ध्याअन्वर्थसम्बन्धेन तथा संज्ञासिद्ध्या च-यदृच्छाभिधानयोगेन च / आह- यद्येवं द्विविध इति न वक्तव्यम्, गुणसंज्ञासिद्धयेत्यनेनैव द्वैविध्यस्य गतत्वात्, न, अनेनैव प्रकारेणेह द्वैविध्यम्,आगमनोआगमादिभेदेन नेति ज्ञापनार्थमिति गाथार्थः // 117 // तत्र 'यथोद्देशं निर्देश' इति न्यायमाश्रित्य गुणसिद्ध्या यो भावविहङ्गमस्तमभिधित्सुराह नि०-विहमागासं भण्ण्इ गुणसिद्धी तप्पइट्ठिओ लोगो। तेण उ विहङ्गमो सो भावत्थो वा गई दुविहा॥११८॥ विजहाति-विमुञ्चति जीवपुद्गलानिति विहम्, ते हि स्थितिक्षयात्स्वयमेव तेभ्य आकाशप्रदेशेभ्यश्च्यवन्ते, ताँश्च्यवमानाविमुञ्चतीति, शरीरमपि च मलगण्डोलकादि विमुञ्चत्येव (इति) मा भूत् संदेह इत्यत आह- आकाशं भण्यते, न शरीरादि, 8 // 111 // संज्ञाशब्दत्वात्, आकाशन्ते-दीप्यन्ते स्वधर्मोपेता आत्मादयो यत्र तदाकाशम्, किं?-संतिष्ठत इत्यादिक्रियाव्यपोहार्थमाह (r) यद्यद्यान्यान् भावान् परिणमति / 0 औदयिक औपशमिकः / 0 षड्विधो भावलोकः। 0 भेदेनेति (प्र०)।
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy