________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् // 108 // प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् 2 भ्रमरोदाहरणं। नियुक्तिः 113-115 दृष्टान्तविशुद्धावाक्षेपपरिहारौ। अत्यादरेण राध्यन्ति, श्रमणैः सुविहितैश्चतुर्विधाहारविरतैः सद्भिरिति गाथात्रयार्थः॥११०-१११-११२॥ किंच नि०- अस्थि बहुगामनगरा समणा जत्थ न उवेंतिन वसंति। तत्थविरंधति गिही पगई एसा गिहत्थाणं // 113 // सन्ति बहूनि ग्रामनगराणि तेषु तेषु देशेषु श्रमणाः साधवो यत्र नोपयान्ति अन्यतो, नवसन्ति तत्रैव, अथ च तत्रापि राध्यन्ति गृहिणः, अतः प्रकृतिरेषा गृहस्थानामिति गाथार्थः // 113 // अमुमेवार्थं स्पष्टयन्नाह नि०- पगई एस गिहीणंजंगिहिणो गामनगरनिगमेसुं। रंधंति अप्पणो परियणस्स कालेण अट्ठाए॥११४॥ प्रकृतिरेषा गृहिणां वर्त्तते यद्दहिणो ग्रामनगरनिगमेषु, निगमः- स्थानविशेषः, राध्यन्ति आत्मनः परिजनस्य अर्थाय निमित्तं कालेनेति योग इति गाथार्थः / / 114 // नि०- तत्थ समणा तवस्सी परकडपरनिट्ठियं विगयधूमं / आहारं एसंति जोगाणं साहणट्ठाए।।११५॥ तत्र श्रमणाः तपस्विन इति उद्यतविहारिणो नेतरे, परकृतपरनिष्ठितमिति, कोऽर्थः?- परार्थं कृतं- आरब्धं परार्थं च निष्ठितं- अन्तं गतम्, विगतधूम-धूमरहितम्, एकग्रहणे तज्जातीयग्रहण मिति न्यायाद्विगताङ्गारं च रागद्वेषमन्तरेणेत्यर्थः, उक्तं च-रागेण सइंगालंदोसेण सधूमगं वियाणाहिआहारं ओदनादिलक्षणं 'एषन्ते' गवेषन्ते, किमर्थ? अत्राह-योगानां मनोयोगादीनां संयमयोगानां वा साधनार्थम्, न तु वर्णाद्यर्थमिति गाथार्थः॥११५॥ नवकोडीपरिसुद्धं उग्गमउप्यायणेसणासुद्धं / छट्ठाणरक्खणट्ठा अहिंसअणुपालणट्ठाए॥१॥(प्र०), इयं च किल भिन्नकर्तृकी, अस्या व्याख्या- नवकोटिपरिशुद्धम्, तत्रैता नव कोट्यः, यदुत-ण हणइ १ण हणावेइ 2 0 प्राकृतवाक्यप्रतिरूपकमिति, तत्र च सप्तम्यर्थे तृतीया, हेतुत्वापेक्षया वा। 0 रागेण साङ्गारं द्वेषेण सधूमकं विजानीहि। 0 न हन्ति न घातयति - // 108 //