________________ प्रथममध्ययन श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 107 // द्रुमपुष्पिका, सूत्रम् 2 भ्रमरोदाहरणं। नियुक्तिः 108-112 दृष्टान्तविशुद्धावाक्षेपपरिहारौ। नि०- पगई एस दुमाणं जं उउसमयम्मि आगए संते। पुप्फंति पायवगणा फलंच कालेण बंधंति // 108 // यदि प्रकृतिः किमिति पुनः सर्वकालं न ददति न प्रयच्छन्ति, किं?- पुष्पफलम् ?, एवमाशङ्कयाह- यद्- यस्मात्काले नियत एव पुष्पफलं ददति, गुरुराह- अत एव- अस्मादेव हेतोः॥ प्रकृतिरेषा द्रुमाणां यद् ऋतुसमये वसन्तादावागते सति पुष्प्यन्ति पादपगणा वृक्षसङ्घाताः, तथा फलं च कालेन बध्नन्ति, तदर्थानभ्युपगमे तु नित्यप्रसङ्ग इति गाथाद्वयार्थः।। 107-108 // साम्प्रतं प्रकृतेऽप्युक्तार्थयोजनां कुर्वन्नाह नि०- किं नु गिही रंधंती समणाणं कारणा अहासमयं / मा समणा भगवंतो किलामएजा अणाहारा॥१०९॥ किं नुगृहिणो राध्यन्ति पार्क निर्वर्तयन्ति श्रमणानां कारणेन यथाकालं?, मा श्रमणा भगवन्तः क्लामन्ननाहारा इति पूर्ववदिति गाथार्थः॥१०९॥ न चैतदित्थमित्यभिप्रायः॥ अत्राह नि०- समणऽणुकंपनिमित्तं पुण्णनिमित्तं च गिहनिवासी उ। कोइ भणिज्जा पागं करेंति सो भण्णइन जम्हा॥११०॥ नि०-कंतारे दुन्भिक्खे आयंके वा महइ समुप्पन्ने / रत्तिं समणसुविहिया सव्वाहारं न भुंजंति॥१११॥ नि०- अह कीस पुण गिहत्था रत्तिं आयरतरेण रंधति / समणेहिं सुविहिएहिं चउव्विहाहारविरएहिं?॥११२॥ श्रमणेभ्योऽनुकम्पा श्रमणानुकम्पा तन्निमित्तम्, न ह्येते हिरण्यग्रहणादिना अस्माकमनुकम्पां कुर्वन्तीति मत्वा भिक्षादानार्थं | पाकं निवर्तयन्त्यतः श्रमणानुकम्पानिमित्तम्, तथा सामान्येन पुण्यनिमित्तं च गृहनिवासिन एव कश्चिद् ब्रूयात्पाकं कुर्वन्ति, स भण्यते- नैतदेवम्, कुतः?- यस्मात् कान्तारे अरण्यादौ दुर्भिक्षे अन्नाकाले आतङ्के वा ज्वरादौ महति समुत्पन्ने सति रात्री श्रमणाः सुविहिताः शोभनानुष्ठानाः, किं?- सर्वाहारं ओदनादिन भुञ्जते॥अथ किमिति पुनर्गृहस्थाः तत्रापि रात्रौ आदरतरेण // 107 //