________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 105 // प्रथममध्ययन दुमपुष्पिका, सूत्रम् 2 भ्रमरोदाहरणं। नियुक्तिः 99-102 दृष्टान्त| विशुद्धा वाक्षेप| परिहारौ। नि०- वासइन तणस्स कएन तणं वहइ कए मयकुलाणं / न य रुक्खा सयसाला फुल्लन्ति कए महुयराणं // 99 // वर्षति न तृणस्य कृते, न तृणार्थमित्यर्थः, तथा न तृणं वर्धते कृते मृगकुलाना- अर्थाय तथा न च वृक्षाः शतशाखाः पुष्प्यन्ति कृते अर्थाय मधुकराणाम्, एवं गृहिणोऽपि न साध्वर्थं पाकं निवर्तयन्तीत्यभिप्राय इति गाथार्थः॥ 99 // अत्र पुनरप्याह नि०- अग्गिम्मि हवी हूयइ आइच्चो तेण पीणिओसंतो। वरिसइ पयाहियाए तेणोसहिओ परोहंति // 10 // इह यदुक्तं वर्षति न तृणार्थ' मित्यादि, तदसाधु, यस्मादग्नौ हविहूयते, आदित्यः तेन हविषा घृतेन प्रीणितः सन् वर्षति, किमर्थं?- प्रजाहितार्थं लोकहिताय, तेन वर्षितेन, किं?, औषध्यः प्ररोहन्ति उद्गच्छन्ति, तथा चोक्तं- अनावाज्याहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिवृष्टेरन्नं ततः प्रजाः॥१॥ इति गाथार्थः॥१००॥ अधुनैतत्परिहारायेदमाह नि०- किं दुब्भिक्खं जायइ? जइ एवं अह भवे दुरिढं तु / किं जायइ सव्वत्था दुब्भिक्खं अह भवे इंदो? // 101 // नि०- वासइ तो किं विग्धं निग्घायाईहिं जायए तस्स / अह वासइ उउसमए न वासई तो तणट्ठाए॥१०२॥ किं दुर्भिक्षंजायते यद्येवं?, कोऽभिप्रायः?- तद्धविः सदा हयत एव, ततश्च कारणाविच्छेदे न कार्यविच्छेदो युक्त इति, अथ भवेद् दुरिष्टं तु दुर्नक्षत्रं दुर्यजनं वा, अत्राप्युत्तरं- किं जायते सर्वत्र दुर्भिक्षं?, नक्षत्रस्य दुरिष्टस्य वा नियतदेशविषयत्वात्, सदैव सद्यज्वनां भावात्, उक्तं च- सदैव देवाः सद्गावो, ब्राह्मणाश्च क्रियापराः। यतयः साधवश्चैव, विद्यन्ते स्थितिहेतवः॥१॥ इत्यादि, अथ भवेदिन्द्र इति, किं?, वर्षति, ततः किं विघ्नः अन्तरायो निर्घातादिभिर्जायते?, आदिशब्दाद्दिग्दाहादिपरिग्रहः, तस्य इन्द्रस्य, परमैश्वर्ययुक्तत्वेन विघ्नानुपपत्तेरिति भावना, अथ वर्षति ऋतुसमये गर्भसङ्घात इति वाक्यशेषः, न वर्षति ततस्तृणार्थम्, 0 वर्षातृणानि तस्य प्रतिषेधे इत्येतच्च भाष्यकृता प्राक् प्रपञ्चितमेवेति वचनात् प्रतीयते यदुतैता एकोनविंशतिर्भाष्यगाथाः।