SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 104 // वेदितव्य इति, एतच्च सूत्रस्पर्शिकनियुक्तौ दर्शयिष्यति, उक्तं च सूत्रस्पर्शे त्वियमन्येति / अधुना दृष्टान्तविशुद्धिमाह-न च नैव पुष्पं प्राग्निरूपितस्वरूपं क्लामयति पीडयति, स च भ्रमरः प्रीणाति तर्पयत्यात्मानमिति सूत्रसमुदायार्थः॥ अवयवार्थ नियुक्तिकारो महता प्रपञ्चेन व्याख्यास्यति / तथा चाह नि०-जह भमरोत्ति य एत्थं दिट्ठतो होइ आहरणदेसे। चंदमुहि दारिगेयं सोमत्तवहारण ण सेसं // 16 // यथा भ्रमर इति च अत्र प्रमाणे दृष्टान्तो भवत्युदाहरणदेशमधिकृत्य, यथा चन्द्रमुखी दारिकेयमित्यत्र सौम्यत्वावधारणं गृह्यते, न शेष-कलङ्काङ्कितत्वानवस्थितत्वादीति गाथार्थः // 96 // . नि०- एवं भमराहरणे अणिययवित्तित्तणं न सेसाणं / गहणं दिटुंतविसुद्धि सुत्त भणिया इमा चऽन्ना / / 97 / / एवं भ्रमरोदाहरणे अनियतवृत्तित्त्वम्, गृह्यत इति शेषः, न शेषाणां अविरत्यादीनां भ्रमरधर्माणां ग्रहणम्, दृष्टान्त इति / एषा दृष्टान्तविशुद्धिः सूत्रे भणिता, इयं चान्या सूत्रस्पर्शनियुक्ताविति गाथार्थः / 97 // नि०- एत्थ य भणिज्ज कोई समणाणं कीरए सुविहियाणं / पागोवजीविणो त्ति य लिप्पंतारंभदोसेणं // 18 // __ अत्र चैवं व्यवस्थिते सति ब्रूयात्कश्चिद्यथा- श्रमणानां क्रियते सुविहितानामिति, एतदुक्तं भवति- यदिदं पाकनिर्वर्तनं गृहिभिः क्रियते, इदं पुण्योपादानसंकल्पेन श्रमणानां क्रियते सुविहितानामिति तपस्विनाम्, गृह्णन्ति च ते ततो भिक्षामित्यतः पाकोपजीविन इतिकृत्वा लिप्यन्ते आरम्भदोषेण- आहारकरणक्रियाफलेनेत्यर्थः, तथा च लौकिका अप्याहुः- क्रयेण क्रायको हन्ति, उपभोगेन खादकः / घातको वधचित्तेन, इत्येष त्रिविधो वधः॥१॥इति गाथार्थः॥९८॥साम्प्रतमेतत्परिहरणाय गुरुराह * भाष्यगतचतुर्थगाथायाम्। प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् 2 | भ्रमरोदाहरणं। नियुक्तिः 96-97 अन्या दृष्टान्तविशुद्धिः। नियुक्ति: 98 दृष्टान्तविशुद्धावाक्षेपपरिहारौ। // 104 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy