SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 102 // नि०-जो तेसुधम्मसद्दो सो उवयारेण निच्छएण इहं / जह सीहसढुसीहे पाहण्णुवयारओऽण्णत्थ // 15 // प्रथममध्ययन यः तेषु तन्त्रान्तरीयधर्मेषु धर्मशब्दः स उपचारेण अपरमार्थेन, निश्चयेन अत्र जिनशासने, कथं?- यथा सिंहशब्दः सिंहे व्यवस्थितः दुमपुष्पिका, सूत्रम् 1 प्राधान्येन, उपचारतः उपचारेण अन्यत्रमाणवकादौ, यथा सिंहो माणवकः, उपचारनिमित्तंच शौर्यक्रौर्यादयः धर्मे त्वहिंसाधभि | नियुक्तिः 95 धानादय इति गाथार्थः // 95 // भाष्यम् 1-2 हेतोर्विशुद्धिः। भा०- एस पइन्नासुद्धी हेऊ अहिंसाइएसुपंचसुवि।सब्भावेण जयंती हेउविसुद्धी इमा तत्थ॥१॥ एषा उक्तस्वरूपा प्रतिज्ञायाः शुद्धिः प्रतिज्ञाशुद्धिः, हेतुरहिंसादिषु पञ्चस्वपि सद्भावेन यतन्त इति, अयं च प्राग व्याख्यात एव, शुद्धिमभिधातुकामेन च भाष्यकृता पुनरुपन्यस्त इति, अत एवाह- हेतोर्विशुद्धिहेतुविशुद्धिः, विषयविभाषाव्यवस्थापन विशुद्धिः, इमा इयं तत्र प्रयोग इति गाथार्थः॥ भा०-जं भत्तपाणउवगरणवसहिसयणासणाइसुजयंति / फासुयअकयअकारियअणणुमयाणुद्दिट्ठभोई य॥२॥ यद् यस्मात् भक्तं च पानं चोपकरणं च वसतिश्च शयनासनादयश्चेति समासस्तेषु, किं?- यतन्ते प्रयत्नं कुर्वन्ति, कथमेतदेवमित्यत्राह- यस्मात् प्रासुकं चाकृतं चाकारितं चाननुमतं चानुद्दिष्टं च तद्भोक्तुं शीलं येषां ते तथाविधाः, तत्रासवः- प्राणाः प्रगता असवः- प्राणा यस्मादिति प्रासुकं-निर्जीवम्, तच्चस्वकृतमपि भवत्यत आह-अकृतम्, तदपिकारितमपि भवत्यत आह- अकारितम्, तदप्यनुमतमपि भवत्यत आह- अननुमतम्, तदप्युद्दिष्टमपि भवति यावदर्थिकादि न च तदिष्यत इत्यत / आह-अनुद्दिष्टमिति। एतत्परिज्ञानोपायश्चोपन्यस्तसकलप्रदानादिलक्षणसूत्रादवगन्तव्य इतिगाथार्थ : / तदन्ये पुनः किमित्यत आह
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy