SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् // 101 // प्रथममध्ययनं द्रुमपुष्पिका, सूत्रम् 1 नियुक्तिः 93-94 दशावयवेषुप्रतिज्ञाशुद्धिः / द्वितीया पञ्चावयवोपन्यस्तप्रथमप्रतिज्ञापेक्षया, प्रतिज्ञा पूर्ववत्, द्वितीया चासौ प्रतिज्ञा च द्वितीयप्रतिज्ञा, साचेयं-जिनशासने जिनप्रवचने, किं?- साधयन्ति निष्पादयन्ति साधवः प्रव्रजिताः धर्मं प्राग्निरूपितशब्दार्थम् / इह च साधव इति धर्मिनिर्देशः, शेषस्तु साध्यधर्म इति, अयं प्रतिज्ञानिर्देशः। हेतु-निर्देशमाह-हेतुर्यस्मात् साद्भाविकेषु पारमार्थिकेषु निरुपचरितेष्वर्थेष्वित्यर्थः अहिंसादिषु, आदिशब्दान्मृषावादादिविरतिपरिग्रहः, अन्ये तु व्याचक्षते-'सब्भाविएहि ति सद्भावेन निरुपचरितसकलदुःखक्षयायैवेत्यर्थः यतन्ते प्रयत्नं कुर्वन्ति इति गाथार्थः॥९२॥साम्प्रतं प्रतिज्ञाशुद्धिमभिधातुकाम आह नि०-जह जिणसासणनिरया धम्मपालेंति साहवो सुद्धं / न कुतित्थिएसु एवं दीसइ परिवालणोवाओ॥१३॥ यथा येन प्रकारेण जिनशासननिरता- निश्चयेन रता धर्मं प्राग्निरूपितशब्दार्थं पालयन्ति रक्षन्ति साधवः प्रव्रजिताः षड्जीवनिकायपरिज्ञानेन कृतकारितादिपरिवर्जनेन च शुद्धं अकलङ्कम्, नैवं तन्त्रान्तरीयाः, यस्मान्न कुतीर्थिकेषु, एवं यथा साधुषु दृश्यते परिपालनोपायः, षड्जीवनिकायपरिज्ञानाद्यभावात् / उपायग्रहणंच साभिप्रायकम्, शास्त्रोक्तः खलूपायोऽत्र चिन्त्यते, न पुरुषानुष्ठानम्, कापुरुषा हि वितथकारिणोऽपि भवन्त्येवेति गाथार्थः // 93 // अत्राह नि०- तेसुविय धम्मसद्दो धम्मं निययं च ते पसंसंति। नणु भणिओ सावज्जो कुतित्थिधम्मो जिणवरेहिं॥९४॥ तेष्वपि च तन्त्रान्तरीयधर्मेषु, किं?- धर्मशब्दो लोके रूढः, तथा धर्मं निजं च आत्मीयमेव यथातथं ते प्रशंसन्ति स्तुवन्ति, ततश्च कथमेतदिति, अत्रोच्यते, नन्वि त्यक्षमायां भणित उक्तः पूर्वं सावद्यः सपापः कुतीर्थिकधर्मः चरकादिधर्मः। कैः?जिनवरैः तीर्थकरैः ण जिणेहिं उपसत्थो इति वचनात्, षड्जीवनिकायपरिज्ञानाद्यभावादेवेति, अत्रापि बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः // 94 // तथा // 101 //
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy