________________ श्रीदशवैकालिकं श्रीहारि० वृत्तियुतम् // 10 // प्रथममध्ययनं द्रुमपुष्पिका, सूत्रम् नियुक्तिः 91-92 पद्यावयवउपनयनिगमने दशावयव इति, न गच्छन्तीत्यगा- वृक्षास्तैः कृतमगारं- गृहं तद्येषां विद्यत इति अर्शआदेराकृतिगणत्वादच्प्रत्ययः अगारा- गृहस्थाः, न अगारा- अनगाराः, चशब्दः समुच्चयार्थः, तुरेवकारार्थः, ततश्च बहव एव नाल्पाः,रागादिजेतृत्वाजिनास्तच्छिष्याः-तद्विनेया गौतमादयः, आह- अर्हदादीनांपरोक्षत्वात् दृष्टान्तत्वमेवायुक्तम्, कथं चैतद्विनिश्चीयते? यथा ते देवादिपूजिता इति, उच्यते, यत्तावदुक्तं परोक्षत्वा'दिति, तद्दुष्टम्, सूत्रस्य त्रिकालगोचरत्वात् कदाचित्प्रत्यक्षत्वात्, देवादिपूजिता इति च एतद्विनिश्चयायाहवृत्तं-अतिक्रान्तं अनुवर्त्तमानेन-साम्प्रतकालभाविना ज्ञायते, कथमित्यत आह- यद्यस्माद् नरपतयोऽपि-राजानोऽपि प्रणमन्ति, इदानीमपि भावसाधुम्, ज्ञानादिगुणयुक्तमिति गम्यते। अनेन गुणानां पूज्यत्वमावेदितं भवतीति गाथार्थः॥९॥ नि०-उवसंहारो देवा जह तह रायाविपणमइ सुधम्मं / तम्हा धम्मो मंगलमुक्किट्ठमिइ अनिगमणं॥९१॥ उपसंहारः उपनयः,सचायं- देवा यथा तीर्थकरादीन् तथा राजाऽप्यन्योऽपि जनः प्रणमतीदानीमपि सुधर्माणमिति / यस्मादेवं तस्माद्देवादिपूजितत्वाद् धर्मो मङ्गलमुत्कृष्टमिति च निगमनम्। 'प्रतिज्ञाहेत्वोः पुनर्वचनं निगमन मिति गाथार्थः // 91 // उक्तं पञ्चावयवम्, एतदभिधानाचार्थाधिकारोऽपि धर्मप्रशंसा / साम्प्रतं दशावयवं तथा स चेहैव जिनशासन इत्यधिकारं चोपदर्शयति- इह च दशावयवाः-प्रतिज्ञादय एव प्रतिज्ञादिशुद्धिसहिता भवन्ति / अवयवत्वं च तच्छुद्धीनामधिकृतवाक्यार्थोपकारकत्वेन प्रतिज्ञादीनामिव भावनीयमिति, अत्र बहु वक्तव्यम्, तत्तुनोच्यते, गमनिकामात्रत्वात् प्रारम्भस्येति ॥साम्प्रतमधिकृतदशावयवप्रतिपादनायाह नि०- बिइयपइन्ना जिणसासणंमि साहेति साहवो धम्मं / हेऊ जम्हा सन्भाविएसुऽहिंसाइसुजयंति // 12 // प्रतिपादनश। 8 // 100 //