SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ श्रीदशवैकालिक श्रीहारि० वृत्तियुतम् / / 99 // प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् | नियुक्तिः 89-90 सूत्रावयवे प्रतिज्ञादिः। Nठावेइ / उक्तो लूषकस्तदभिधानाच्च हेतुरपि / साम्प्रतं यदुक्तं 'क्वचित्पञ्चावयव मिति, तदधिकृतमेव सूत्रं 'धम्मो मंगल मित्यादिलक्षणमधिकृत्य निदर्श्यते-अहिंसासंयमतपोरूपो धर्मः मङ्गलमुत्कृष्टमिति प्रतिज्ञा, इह च धर्म इति धर्मिनिर्देशः, अहिंसासंयमतपोरूप इति धर्मिविशेषणम्, उत्कृष्टं मङ्गलमिति साध्यो धर्मः, धर्मिधर्मसमुदायः प्रतिज्ञा, इयं श्लोकार्द्धनोक्ता इति, देवादिपूजितत्वादिति हेतुः, आदिशब्दात् सिद्धविद्याधरनरपरिग्रहः,अयं च श्लोकतृतीयपादेन खलूक्तोऽवसेयः, अर्हदादिवदिति दृष्टान्तः, अत्रापि चादिशब्दाद् गणधरादिपरिग्रहः, अयं च श्लोकचरमपादेनोक्तो वेदितव्य इति। न च भावमनोऽधिकृत्याहदृष्टान्तेऽस्ति कश्चिद्विरोध इति, इह यो यो देवादिपूजितः स स उत्कृष्टं मङ्गलं यथाऽर्हदादयस्तथा च देवादिपूजितो धर्म इत्युपनयः, तस्माद्देवादिपूजितत्वादुत्कृष्टं मङ्गलमिति निगमनम्। इदंचावयवद्वयं सूत्रोक्तावयवत्रयाविनाभूतमितिकृत्वा तेन सूचितमवगन्तव्यमित्यलं विस्तरेण // 88 // साम्प्रतमेतानेवावयवान् सूत्रस्पर्शिकनियुक्त्या प्रतिपादयन्नाह नि०-धम्मो गुणा अहिंसाइया उते परममंगल पइन्ना। देवावि लोगपुज्जा पणमंति सुधम्ममिइ हेऊ॥८९॥ धर्मः प्राग्निरूपितशब्दार्थः, सच क इत्याह- गुणा अहिंसादयः, आदिशब्दात् संयमतपःपरिग्रहः, तुरेवकारार्थः, अहिंसादय एव, ते परममङ्गलमिति प्रतिज्ञा, तथा देवा अपि, अपिशब्दात् सिद्धविद्याधरनरपतिपरिग्रहः, लोकपूज्या लोकपूजनीयाः प्रणमंति नमस्कुर्वन्ति, कं?- सुधर्माणं शोभनधर्मव्यवस्थितमिति, अयं हेत्वर्थसूचकत्वाद्धेतुरिति गाथार्थः॥ 89 // नि०-दिट्ठतो अरहंता अणगारा य बहवो उ जिणसीसा। वत्तणुवत्ते नजइ जनरवइणोऽविपणमंति // 90 // दृष्टान्तः प्राग्निरूपितशब्दार्थः,सचाशोकाद्यष्टमहाप्रातिहार्यादिरूपांपूजामर्हन्तीत्यर्हन्तः, तथा अनगाराश्च बहव एव जिनशिष्या र स्थापयति। ॐ द्रव्यमनःसत्त्वात् पूर्वावस्थामाश्रित्य वा।
SR No.600441
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages466
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy