________________ श्रीदशवैकालिक श्रीहारिक वृत्तियुतम् प्रथममध्ययन द्रुमपुष्पिका, सूत्रम् नियुक्ति: 77 // 80 // द्वारम्। संथारोवगया पसुत्ता, इयरीए विपरमसंवेगगयाए केवलनाणं समुप्पन्नं, परमंच अंधयारंवट्टइ,सप्पो य तेणंतरेण आगच्छद, पव्वत्तिणीए य हत्थो लंबमाणो तीए उप्पाडिओ, पडिबुद्धा य अज्जचंदणा, पुच्छिया-किमेयं?,सा भणइ-दीहजाइओ, कहं तुम जाणसि? किं कोइ अतिसओ? आमंति, पडिवाइ अप्पडिवाइत्ति पुच्छिया सा भणइ- अप्पडिवाइत्ति, तओ खामिया। लोगलोगुत्तरसाहरणमेयं / एवंपमायतोसीसोउवालंभेयव्वोत्ति / उदाहरणदेशता पूर्ववद्योजनीयेति / एवं तावच्चरणकरणानुयोगमधिकृत्य व्याख्यातमुपालम्भद्वारम्, अधुना द्रव्यानुयोगमधिकृत्य व्याख्यायते- नास्तिकवाद्यपि चार्वाकोऽपि जीवनास्तित्वप्रतिपादक इत्यर्थः, एवं वक्तव्यः अभिधातव्यः- नास्ति न विद्यते, कः? प्रकरणाजीव इति, एवंभूतं कुविज्ञानं जीवसत्ताप्रतिषेधावभासीत्यर्थः, आत्माऽभावे सति न युक्तम्, आत्मधर्मत्वाद् ज्ञानस्येति भावना, भूतधर्मता पुनरस्य धर्म्यननुरूपत्वादेव न युक्ता, तत्समुदायकार्यताऽपि प्रत्येकं भावाभावविकल्पद्वारेण तिरस्कर्तव्येति गाथार्थः॥ अमुमेवार्थं समर्थयन्नाह नि०- अत्थित्ति जा वियक्का अहवा नत्थित्ति जंकुविन्नाणं। अच्चंताभावे पोग्गलस्स एयं चिअन जुत्तं // 77 // अस्ति जीव इति एवंभूता या वितर्काऽथवा नास्ति न विद्यत इति एवंभूतं यत्कुविज्ञानं लोकोत्तरापकारि अत्यन्ताभावे पुद्गलस्य जीवस्य इदमेव न युक्तं इदमेवान्याय्यम्, भावना पूर्ववदिति गाथार्थः॥उदाहरणदेशता नास्तिकस्य, परलोकादिप्रतिषेधवादिनो - संस्तारोपगता प्रसुप्ता, इतरस्या अपि परमसंवेगगतायाः केवलज्ञानं समुत्पन्नम्, परमं चान्धकारं वर्तते। सर्पश्च तेनान्तरेण (मार्गेण मध्येन वा) आगच्छति, प्रवर्त्तिन्याश्च हस्तो लम्बमानस्तयोत्पाटितः, प्रतिबुद्धा चार्यचन्दना, पृष्टा किमेतत्?, सा भणति- दीर्घजातीयः, कथं त्वं जानासि? किं कश्चिदतिशयः? ओमिति, प्रतिपात्यप्रतिपाती वेति पृष्टा सा भणति-अप्रतिपातीति, ततः क्षामिता। लोकलोकोत्तरसाधारणमेतत्, एवं प्रमाद्यन् शिष्य उपालम्भनीय इति / 0 ०र्थमुपसंहरन्नाह. (प्र०)। // 80 //