________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 78 // सूत्रम् 25 २५समवायः महाव्रतभावनादिः बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति।सूत्रम् 25 // पञ्चविंशतिस्थानकमपि सुबोधम्, नवरमिह स्थितेराग् नव सूत्राणि, तत्र पंचजामस्स त्ति पञ्चानां यामानां- महाव्रतानां समाहारः पञ्चयामं तस्य भावणाओ त्ति प्राणातिपातादिनिवृत्तिलक्षणमहाव्रतसंरक्षणाय भाव्यन्ते इति भावनास्ताश्च प्रतिमहाव्रतं पञ्च पञ्चेति, तोर्यासमित्याद्याः पञ्च प्रथमस्य महाव्रतस्य, तत्रालोकभाजनभोजनं- आलोकनपूर्वं भाजने- पात्रे भोजनंभक्तादेरभ्यवहरणम्, अनालोक्य भोजने हि प्राणिहिंसा सम्भवतीति, तथा अनुविचिन्त्य भाषणतादिका द्वितीयस्य, तत्र विवेकःपरित्यागः, तथा अवग्रहानुज्ञापनादिकास्तृतीयस्य, तत्रावग्रहानुज्ञापना 1, तत्र चानुज्ञाते सीमापरिज्ञानं 2, ज्ञातायां च सीमायां स्वयमेव उग्गह मिति अवग्रहस्यानुग्रहणता पश्चात्स्वीकरणमवस्थानामित्यर्थः३, साधर्मिकाणां- गीतार्थसमुदायविहारिणां संविग्नानामवग्रहो मासादिकालमानेन पञ्चक्रोशादिक्षेत्ररूपः साधर्मिकावग्रहस्तं तानेवानुज्ञाप्य तस्यैव परिभोजनता-अवस्थानं साधर्मिकाणां क्षेत्रे वसतौ वा तैरनुज्ञाते एव वस्तव्यमिति भावः 4, साधारणं- सामान्यं यद्भक्तादि तदनुज्ञाप्याचार्यादिकं तस्य परिभोजनतेति 5, तथा स्त्र्यादिसंसक्तशयनादिवर्जनादिकाश्चतुर्थस्य, प्रणीताहारः अतिस्नेहवानिति, तथा श्रोत्रेन्द्रियरागोपरत्यादिकाः | पञ्चमस्य, अयमभिप्रायो- यो यत्र सजति तस्य तत् परिग्रहेऽवतरति , ततश्च शब्दादौ रागं कुर्वता ते परिगृहीता भवन्तीति परिग्रहविरतिर्विराधिता भवति, अन्यथा त्वाराधितेति, वाचनान्तरे त्वेता आवश्यकानुसारेण दृश्यन्ते / तथा मिच्छादिट्ठी त्यादि, मिथ्यादृष्टिरेव तिर्यग्गत्यादिकाः कर्मप्रकृतीर्बध्नाति न सम्यग्दृष्टिः, तासां मिथ्यात्वप्रत्ययत्वादिति मिथ्यादृष्टिग्रहणम्, विकलेन्द्रियो-द्वित्रिचतुरिन्द्रियाणामन्यतमः, णमित्यलङ्कारे, पर्याप्तोऽन्या अपि बध्नातीत्यपर्याप्तग्रहणम्, अपर्याप्तक (c) लोक्य भाजनभोजने (मु०)। (r) ०मानतः (मु०)। O भोजनं चेति (मु०)। 0 तत्परिग्रह इति (मु०)। 7 नान्तरे आवश्यका० (मु०)। // 78 //