________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 72 // सूत्रम् 22 22 समवायः परिषहादिः तृट् 2, शीतोष्णे प्रतीते 3-4, तथा दंशाश्च मशकाश्च दंशमशका उभयेऽप्येते चतुरिन्द्रिया महत्त्वामहत्वकृतश्चैषां विशेषोऽथवा दंशो- दशनं भक्षणमित्यर्थः, तत्प्रधाना मशका दंशमशकाः, एते च यूकामत्कुणमत्कोटकमक्षिकादीनामुपलक्षणमिति 5, तथा चेलानां-वस्त्राणां बहुधननवीनावदातसुप्रमाणानां सर्वेषां वाऽभाव:अचेलं अचेलत्वमित्यर्थः 6, अरतिः मानसो विकारः 7, स्त्री प्रतीता 8, चर्या ग्रामादिष्वनियतविहारिता 9, नैषेधिकी सोपद्रवेतरा च स्वाध्यायभूमिः 10, शय्या मनोज्ञाऽमनोज्ञा वसति: संस्तारको वा 11, आक्रोशो दुर्वचनं 12, वधो यष्ट्यादिताडनं 13, याचा भिक्षणं तथाविधे प्रयोजने मार्गणं वा 14, अलाभरोगौ प्रतीतौ 15-16, तृणस्पर्शः संस्तारकाभावे तृणेषु शयानस्य 17, जल्लः शरीरवस्त्रादिमलः 18, सत्कारपुरस्कारौ वस्त्रादिपूजनाभ्युत्थानादिसंपादने, सत्कारेण वा पुरस्करणं- सन्माननं सत्कारपुरस्कारः 19, ज्ञानं- सामान्येन मत्यादि क्वचिदज्ञानमिति श्रूयते 20, दर्शन- सम्यग्दर्शनम्, सहनं चास्य क्रियादिवादिनां विचित्रमतश्रवणेऽपि निश्चलचित्ततया / धारणं 21, प्रज्ञा स्वयं विमर्शपूर्वको वस्तुपरिच्छेदो मतिज्ञानविशेष इति 22 / दृष्टिवादो द्वादशमङ्गम, सच पञ्चधा-परिकर्म १सूत्र 2 पूर्वगत 3 प्रथमानुयोग 4 चूलिका 5 भेदात्, तत्र दृष्टिवादस्य द्वितीये प्रस्थाने द्वाविशतिः सूत्राणि, तत्र सर्वत्रद्रव्यपर्यायनयाद्यर्थसूचनात् सूत्राणि, छिन्नच्छेयणइयाई ति इह यो नयः सूत्रं छिन्नं छेदेनेच्छति स छिन्नछेदनयः यथा- 'धम्मो मंगलमुक्किट्ठ'मित्यादिश्लोकः सूत्रार्थतः छेदेन स्थितो न द्वितीयादिश्लोकानपेक्षते, इत्येवं यानि सूत्राणि छिन्नच्छेदनयवन्ति तानि छिन्नच्छेदनयिकानि, तानि च स्वसमया-जिनमताश्रिता या सूत्राणां परिपाटि:- पद्धतिस्तस्यां स्वसमयसूत्रपरिपाट्यां भवन्ति तया वा भवन्तीति, तथा अच्छिन्नच्छेयणइयाई ति इह यो नयः सूत्रमच्छिन्नछेदेनेच्छति सोऽच्छिन्नच्छेदनयो यथा / ७०हारित्वं (मु०)। (c) याचना (मु०)। (c) तत्र सर्वद्रव्य० (प्र०), तत्र द्रव्य० (प्र०)। 0 छेदनयस्थितो (मु०)।