SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ // 67 // श्रीसमवायाङ्गं चात्मानमन्यांश्चासमाधौ योजयत्येव 5, तथा स्थविरा- आचार्यादिगुरवः तानाचारदोषेण शीलदोषेण च ज्ञानादिभिर्वो सूत्रम् 20 श्रीअभय० पहन्तीत्येवंशीलः स एव चेति स्थविरोपघातिकः 6, तथा भूतानि- एकेन्द्रियास्ताननर्थत उपहन्तीति भूतोपघातिकः 7, तथा २०समवायः वृत्तियुतम् असमाधिसंज्वलतीति संज्वलनः- प्रतिक्षणं रोषणः 8, तथा क्रोधनः- सकृत् क्रुद्धोऽत्यन्तक्रुद्धो भवति 9, तथा पृष्ठिमासिकः- परामखस्य स्थानादिः परस्यावर्णवादकारी १०,अभिक्खणं अभिक्खणंओहारयित्त त्ति अभीक्ष्णमभीक्ष्णमवधारयिता-शङ्कितस्याप्यर्थस्य निःशङ्कितस्यैवमेवायमित्येवं वक्ता, अथवाऽवहारयिता- परगुणानामपहारकारी, यथा अदासादिकमपि परंभणति-दासस्त्वं चौरस्त्वमित्यादि 11, तथाऽधिकरणानां- कलहानां यन्त्रादीनां वोत्पादयिता 12, पोराणाणं ति पुरातनानां कलहानां क्षमितव्यवशमितानां-मर्षितत्वेनोपशान्तानांपुनरुदीरयिता भवति१३,तथा सरजस्कपाणिपादो यः सचेतनादिरजोगुण्डितेन हस्तेन दीयमानां भिक्षां गृह्णाति, तथा योऽस्थण्डिलादेः स्थण्डिलादौ संक्रामन्न पादौ प्रमार्टि अथवा यस्तथाविधे कारणे सचित्तादिपृथिव्यां कल्पादिनाऽनन्तरितायामासनादि करोति स सरजस्कपाणिपाद इति 14, तथा अकालस्वाध्यायकारकः प्रतीतः 15, तथा छ कलहकर: कलहहेतुभूतकर्तव्यकारी 16, तथा शब्दकरः रात्रौ महता शब्देनोल्लापस्वाध्यायादिकारको गृहस्थभाषाभाषको वा 17, तथा झञ्झाकरो येन येन गणस्य भेदो भवति तत्तत्कारी, येन च गणस्य मनोदुःखमुत्पद्यते तद्भाषी 18, तथा सूरप्रमाणभोजी सूर्योदयादस्तमयं यावदशनपानाद्यभ्यवहारी 19, एषणाअसमितश्चापि भवति- अनेषणांन परिहरति, प्रेरितश्चासौल साधुभिः कलहायते, तथाऽनेषणीयमपरिहरन् जीवोपरोधेवर्त्तते, एवं चात्मपरयोरसमाधिकरणादसमाधिस्थानमिदं विंशतितममिति 20 / तथा घनोदधयः- सप्तपृथिवीप्रतिष्ठानभूताः, सामानिकाः- इन्द्रसमानर्द्धयः साहस्यः- सहस्राणि, बन्धतो- बन्ध (r) वेति (प्र०)। ७०त्करो येन वा....दुःखं समुत्प० (मु०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy