________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 66 // सूत्रम् 20 २०समवायः असमाधिस्थानादिः सायं विसायं सुविसायं सिद्धत्थं उप्पलं भित्तिलं तिगिच्छं दिसासोवत्थियं पलंबं रुइलं पुष्पं सुपुष्पं पुण्फावतं पुण्फपभं पुप्फकंतं पुप्फवण्णं पुप्फलेसं पुप्फज्झयं पुष्फसिंगं पुप्फसिद्धं पुप्फुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसि णं देवाणं उक्कोसेणं वीसं सागरोवमाइं ठिई प०, तेणं देवा वीसाए अद्धमासाणं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा, तेसिणं देवाणं वीसाए वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइआ भवसिद्धिआजीवा जे वीसाए भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिणिव्वाइस्संति सव्वदुक्खााणमंतं करिस्संति॥सूत्रम् 20 // अथ विंशतितमस्थाने किञ्चिल्लिख्यते, तत्र स्थितिसूत्रेभ्योऽर्वाक् सप्त सूत्राणि, तत्र समाधानं समाधिः- चेतसः स्वास्थ्यं मोक्षमार्गेऽवस्थानमित्यर्थः, न समाधिरसमाधिस्तस्याः स्थानानि-आश्रया भेदा वा असमाधिस्थानानि, तत्र दवदवचारित्ति यो हिद्रुतं द्रुतंचरति- गच्छति सोऽनुकरणशब्दतो दवदवचारीत्युच्यते, चापीत्युत्तरासमाधिस्थानापेक्षया समुच्चयार्थः, भवतीति प्रसिद्धम्, सच द्रुतं द्रुतंसंयमात्मनिरपेक्षोव्रजन्नात्मानं प्रपतनादिभिरसमाधौ योजयति अन्याश्च सत्त्वान्घ्नन्नसमाधौ योजयति, सत्त्ववधजनितेन च कर्मणा परलोकेऽप्यात्मानमसमाधौ योजयति, अतो द्रुतगन्तृत्वमसमाधिकारणत्वादसमाधिस्थानम्, एवमन्यत्रापि यथायोगमवसेयम् 1, तथा अप्रमार्जितचारी 2, दुष्प्रमार्जितचारी च 3, स्थाननिषीदनत्वग्वर्तनादिष्वात्मादिविराधनां लभते, तथाऽतिरिक्ता- अतिप्रमाणा शय्या- वसतिरासनानि च-पीठिकादीनि यस्य सन्ति सोऽतिरिक्तशय्यासनिकः, सच अतिरिक्तायांशय्यायां घशालादिरूपायामन्येऽपि कार्पटिकादय आवासयन्तीति इति तैः सहाधिकरणसम्भवादात्मपरावसमाधौ योजयतीति, एवमासनाधिक्येऽपि वाच्यमिति 4, तथा रानिकपरिभाषी, आचार्यादिपूज्यपुरुषपरिभवकारी स ®आश्रयभेदाः पर्याया वा (मु०)। 6 आवसन्ति (मु०)। 0 धिक्येनापि....पराभव० (मु०)।