________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 60 // सूत्रम् 17 17 समवायः असंयमादिः वर्त्तते जन्तुस्तद्भवयोग्यमेवायुर्बद्धा पुनस्तत्क्षयेण म्रियमाणस्य यद्भवति तत्तद्भवमरणम्, एतच्च तिर्यग्मनुष्याणामेव न देवनारकाणाम्, तेषां तेष्वेवोत्पादाभावादिति, तथा बाला इव बाला:- अविरतास्तेषां मरणंबालमरणम्, तथा पण्डिताः- सर्वविरतास्तेषां मरणं पण्डितमरणम्, बालपण्डिताः- देशविरतास्तेषां मरणं बालपण्डितमरणम्, तथा छद्मस्थमरणं-अकेवलिमरणम्, केवलिमरणं तु प्रतीतम्, वेहासमरणं ति विहायसि-व्योम्नि भवं वैहायसम्, विहायोभवत्वं च तस्य वृक्षशाखाद्युबद्धत्वेसति भावात्, तथा छ गृद्धैः- पक्षिविशेषैरुपलक्षणत्वाच्छकुनिकाशिवादिभिश्च स्पृष्टं- स्पर्शनं यस्मिंस्तद्गृध्रस्पृष्टम्, अथवा गृध्राणां भक्ष्यं पृष्ठमुपलक्षणत्वादुदरादि यत्र तगृध्रपृष्ठम्, इदं च करिकरभादिशरीमध्यपातादिना गृध्रादिभिरात्मानं भक्षयतो महासत्त्वस्य भवतीति, तथा भक्तस्य- भोजनस्य यावज्जीवं प्रत्याख्यानं यस्मिंस्तत्तथा, इदंच त्रिविधाहारस्य चतुर्विधाहारस्य वा नियमरूपं सप्रतिकर्म च भक्तपरिज्ञेति यद्रूढम्, तथा इङ्गयते प्रतिनियते देश एव चेष्ट्यतेऽस्यामनशनक्रियायामितीङ्गिनी तया मरणमिङ्गिनीमरणम्, तद्धि चतुर्विधाहारप्रत्याख्यातुनिष्प्रतिकर्मशरीरस्येङ्गितदेशाभ्यन्तरवर्त्तिन एवेति, तथा पादपस्येवोपगमनं- अवस्थानं यस्मिन् तत्पादपोपगमनं तदेव मरणमिति विग्रहः, इदं च यथा पादपः क्वचित् कथञ्चिद् निपतितः सममसममिति चाविर्भावय-2 निश्चलमेवास्ते तथा यो वर्त्तते तस्य भवतीति / तथा सूक्ष्मसम्परायः उपशमकःक्षपको वा सूक्ष्मलोभकषायकिट्टिकावेदको भगवान्- पूज्यत्वात् सूक्ष्मसम्परायभावे वर्तमानस्तत्रैव गुणस्थानकेऽवस्थितः नातीतानागतसूक्ष्मसम्परायपरिणाम इत्यर्थः सप्तदश कर्मप्रकृतीर्निबध्नाति विंशत्युत्तरे बन्धप्रकृतिशतेऽन्या न बध्नातीत्यर्थः, पूर्वतरगुणस्थानकेषु बन्धं प्रतीत्य तासांव्यवच्छिन्नत्वात्, तथोक्तानां सप्तदशानांमध्यादेका शातप्रकृतिरुपशान्तमोहादिषु बन्धमाश्रित्यानुयाति,शेषाः षोडशेहैव व्यवच्छिद्यन्ते, यदाह0 व्योमनि (मु०)। // 60 //