SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 59 // सूत्रम् 17 17 समवायः असंयमादिः कक्कोडे 1 विजुपभे 2 केलास 3 ऽरुणप्पभे 4 चेव॥६॥ कक्कोडय कद्दमए केलासऽरुणप्पभेत्थ(नाग) रायाणो / बायालीससहस्से गंतु उयहिंमि सव्वेवि॥७॥चत्तारि जोयणसए तीसे कोसंच उवगया भूमी। सत्तरस जोयणसए इगवीसे ऊसिया सव्वे ॥८॥(बृहत्क्षेत्र० गा० 415-22) त्ति चारणाणं ति जङ्गाचारणानां विद्याचारणानां च तिरियत्ति तिर्यग् रुचकादिद्वीपगमनायेति, तिगिञ्छिकूट उत्पातपर्वतो यत्रागत्य मनुष्यक्षेत्रागमनायोत्पतति, स चेतोऽसङ्खयाततमेऽरुणोदसमुद्रे दक्षिणतो द्विचत्वारिंशतं योजन-2 सहस्राण्यतिक्रम्य भवति, रुचकेन्द्रोत्पातपर्वतस्त्वरुणोदसमुद्र एव उत्तरत एवमेव भवतीति, आवीईमरणे त्ति आसमन्ताद्वीचय इव वीचयः- आयुर्दलिकविच्युतिलक्षणाऽवस्था यस्मिंस्तदावीचि अथवा वीचिः- विच्छेदस्तदभावादवीचि, दीर्घत्वं तु प्राकृतत्वात्तदेवंभूतंमरणमावीचिमरणं-प्रतिक्षणमायुर्द्रव्यविचटनलक्षणम्, तथाऽवधिः- मर्यादा तेन मरणमवधिमरणम्, यानि हि नारकादिभवनिबन्धनतयाऽऽयुःकर्मदलिकान्यनुभूय म्रियते यदि पुनस्तान्येवानुभूय मरिष्यति तदा तदवधिमरणमुच्यते, तद्व्यापेक्षया पुनस्तद्हणावधिं यावजीवस्य मृतत्वादिति,तथा आयंतियमरणे त्ति आत्यन्तिकमरणं यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतश्चन पुनस्तान्यनुभूय मरिष्यतीति, एवं यन्मरणं तद्व्यापेक्षया अत्यन्तभावित्वादात्यन्तिकमिति, वलायमरणे त्ति संयमयोगेभ्यो वलतां- भग्नव्रतपरिणतीनांवतिनां मरणं वलन्मरणं तथा वशेन-इन्द्रियविषयपारतन्त्र्येण ऋताबाधिता वशार्ताः स्निग्धदीपकलिकावलोकनाकुलशलभवत् तथाऽन्तः-मध्ये मनसीत्यर्थः शल्यमिव शल्यमपराधपदं यस्य सोऽन्तःशल्यो- लज्जाभिमानादिभिरनालोचितातिचारस्तस्य मरणं अन्तःशल्यमरणम्, तथा यस्मिन् भवे तिर्यग्मनुष्यभवलक्षणे - कर्कोटको विद्युत्प्रभः कैलासोऽरूणप्रभश्चैव // 6 // कर्कोटककर्दमककैलासोऽरुणप्रभोज राजानः / द्वाचत्वारिंशत् सहस्राणि गत्वोदधौ सर्वे // 7 // चत्वारि योजनशतानि त्रिंशत्क्रोशं चोद्गता भूमिः / सप्तदशयोजनशतानि एकविंशान्युच्छ्रिताः सर्वे / / 8 / /
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy