________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 53 // सूत्रम् 15 १५समवायः परमाधार्मिकादिः पक्षे आवृणोति शुक्ले तु विमुञ्चतीति, उक्तं च ज्योतिष्करण्डके-सोलसभागे काऊण उडुवई हायएत्थ पन्नरसं / तत्तियमेत्ते भागे पुणोवि परिवड्डई जोण्हं // 1 // (ज्योतिष्क० गा० 111) इति, ननु चन्द्रविमानस्य पञ्चैकषष्टिभागन्यूनयोजनप्रमाणत्वात् राहुविमानस्य च ग्रहविमानत्वेनार्द्धयोजनप्रमाणत्वात्कथं पञ्चदशे दिने चन्द्रविमानस्य महत्त्वेनेतरस्य च लघुत्वेन सर्वावरणं स्यात्? इति, अत्रोच्यते, यदिदं ग्रहविमानानामर्द्धयोजनमिति प्रमाणं तत्प्रायिकमिति राहोर्ग्रहस्य योजनप्रमाणमपि विमानं सम्भाव्यते, लघीयसोऽपि वा राहुविमानस्य महता तमिस्ररश्मिजालेन तस्यावरणान्न दोष इति, तथा षड् नक्षत्राणि पञ्चदश मुहूर्तान् यावच्चन्द्रेण सह संयोगो येषांतानि पञ्चदश मुहूर्तसंयोगानि, तद्यथा- सयभिसया भरणीओ अद्दा अस्सेस साइ जेट्ठा य। एए छन्नक्खत्ता पन्नरसमुहुत्तसंजुत्ता॥१॥(जम्बू० गा०७/१६०) संयुक्तं संयोग इति, तथा चेत्तासोएसुमासेसु त्ति, स्थूलन्यायमाश्रित्य चैत्रेऽश्वयुजि च मासे पञ्चदशमुहूर्तो दिवसो भवति रात्रिश्च, निश्चयतस्तु मेषसंक्रान्तिदिने तुलासंक्रान्तिदिने चैवं दृश्यमिति / पओगे त्ति प्रयोजनं प्रयोगः परिस्पन्द आत्मनः क्रियापरिणामो व्यापार इत्यर्थः, अथवा प्रकर्षेण युज्यते सम्बध्यतेऽनेन क्रियापरिणामेन कर्मणा सहात्मेति प्रयोगः, तत्रसत्यार्थालोचननिबन्धनं मनः सत्यमनस्तस्य प्रयोगो-व्यापारः सत्यमनःप्रयोगः, एवं शेषेष्वपि, नवरमौदारिकशरीरकायप्रयोग औदारिकशरीरमेव पुद्गलस्कन्धसमुदायरूपत्वेनोपचीयमानत्वात् कायस्तस्य प्रयोग इति विग्रहः, अयं च पर्याप्तकस्यैव वेदितव्यः, तथौदारिकमिश्रशरीरकायप्रयोगः अयं चापर्याप्तकस्येति, इह चोत्पत्तिमाश्रित्यौदारिकस्य प्रारब्धस्य प्रधानत्वादौदारिकः कार्मणेन मिश्रः, यदा तु मनुष्यः पञ्चेन्द्रियतिर्यङ्बादरवायुकायिको वा वैक्रिय करोति तदौदारिकस्य प्रारम्भकत्वेन प्रधानत्वादौदारिको वैक्रियेण मिश्रो यावद्वैक्रियपर्याप्त्यान पर्याप्तिं गच्छति, एवमाहार ®शुक्लपक्षे (मु०)। 0 षोडश भागान् कृत्वोडुपतिहीयतेऽत्र पञ्चदशा तावन्मात्रान् भागान् पुनरपि परिवर्धते ज्योत्स्ना // 1 //