SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ श्रीसमवाया| श्रीअभय० वृत्तियुतम् // 52 // सूत्रम् 15 १५समवायः परमाधार्मिकादिः इति 12, वेयरणी इय त्ति वैतरणीति च परमाधार्मिकः, स च पूयरुधिरत्रपुताम्रादिभिरतितापात्कलकलायमानैर्भूतां विरूपं तरणं प्रयोजनमस्या इति वैतरणीति यथार्थां नदी विकुळ तत्तारणेन कदर्थयति नारकानिति 13, खरस्सरे त्ति यो वज्रकण्टकाकुलं शाल्मलीवृक्षं नारकमारोप्य खरं स्वरं कुर्वन्तं कुर्वन् वा कर्षति स खरस्वर इति 14, महाघोसे त्ति यो भीतान पलायमानान् नारकान् पशूनिव वाटकेषु महाघोषं कुर्वन्निरुणद्धि स महाघोष इति 15, एमेए पन्नरसाहियत्ति एव' मित्यम्बादिक्रमेणैते परमाधार्मिकाः पञ्चदशाख्याता:- कथिता जिनैरिति ॥२॥धुवराहू ण मित्यादि, द्विविधो राहुःभवति-ध्रुवराहुः पर्वराहुश्च,तत्र यः पर्वणि-पौर्णमास्याममावास्यायांवा चन्द्रादित्ययोरुपरागंकरोति स पर्वराहुः, यस्तु चन्द्रस्य सदैव सन्निहितः सञ्चरति स ध्रुवराहुः, आह च-किण्हं राहुविमाणं निच्चं चंदेण होइ अविरहि। चउरंगुलमप्पत्तं हेट्ठा चंदस्स तं चरइ॥१॥(बृहत्सं० गा० ११६)त्ति, ततोऽसौ ध्रुवराहुः णमित्यलङ्कारेबहुलपक्षस्य प्रतीतस्य पाडिवयं ति प्रतिपदं-प्रथमतिथिमादौ कृत्वेति वाक्यशेषः पञ्चदशभागं पञ्चदशभागेनेति वीप्सायां द्विवचनादि यथा पदं पदेन गच्छतीत्यादिषु, प्रतिदिनं पञ्चदशभागं पञ्चदशभागमिति भावः, चन्द्रस्य प्रतीतस्य लेश्यामिति लेश्या- दीप्तिस्तत्कारणत्वात् मण्डलं लेश्या तामावृत्य- आच्छाद्य तिष्ठति, एतदेव दर्शयन्नाह- तद्यथे त्यादि पढमाए त्ति प्रथमायां तिथ्यांप्रथमं भागं पञ्चदशांशलक्षणं चन्द्रलेश्याया आवृत्य तिष्ठतीति प्रक्रमः, अनेन क्रमेण यावत् पन्नरसेसु त्ति पञ्चदशसु दिनेषु पञ्चदशं पञ्चदशंभागमावृत्य तिष्ठिति, तंचेवत्ति तमेव पञ्चदशभागंशुक्लपक्षस्य प्रतिपदादिषु चन्द्रलेश्याया उपदर्शयन् 2- पञ्चदशभागतः स्वयमपसरणतः प्रकटयन् प्रकटयन् तिष्ठति ध्रुवराहुरिति, इह चायं भावार्थ:- षोडशभागीकृतस्य चन्द्रस्य षोडशभागोऽवस्थित एवास्ते, ये चान्ये भागास्तान् राहुः प्रतितिथ्यैकैकै भागं कृष्ण 0 कृष्णं राहुविमानमधस्तान्नित्यं चन्द्रेण भवत्यविरहितम् / चतुरङ्गुलमप्राप्तमधस्ताच्चन्द्रस्य तच्चरति // 1 // ॐ प्रतिदिनमेकैकं (मु०)। // 52 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy