SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ सूत्रम् 15 १५समवायः श्रीसमवायाड़ा श्रीअभय० वृत्तियुतम् // 51 // परमा धार्मिकादिः वा पाणमंति वा उस्ससंति वा नीससंति वा तेसिणं देवाणं पण्णरसहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइआ भवसिद्धिआ जीवाजे पन्नरसहिं भवग्गहणेहिं सिज्झिस्संति बुझिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति॥सूत्रम् 15 // अथ पञ्चदशस्थानके सुगमेऽपि किश्चिल्लिख्यते, इह स्थितेराक्सप्त सूत्राणि, तत्र परमाश्च तेऽधार्मिकाश्चसंक्लिष्टपरिणामत्वात्परमाधार्मिका:-असुरविशेषाः, ये तिसृषु पृथिवीषु नारकान् कदर्थयन्तीति, तत्राम्बेत्यादि श्लोकद्वयम्, एते च व्यापारभेदेन पञ्चदश भवन्ति, तत्र अंबे त्ति यः परमाधार्मिकदेवो नारकान् हन्ति पातयति बध्नाति नीत्वा चाम्बरतले विमुञ्चति सोऽम्बल इत्यभिधीयते 1, अम्बरिसी चेव त्ति यस्तु नारकानिहत्य कल्पनिकाभिः खण्डशः कर्तयित्वा भ्राष्ट्रपाकयोग्यान् करोति सोऽम्बऋषीति 2, सामे त्ति यस्तु रज्जुहस्तप्रहारादिना शातनपातनादि करोति वर्णतश्च श्यामः स श्याम इति 3, सबले त्ति यावरे त्ति शबल इति चापरः परमाधार्मिक इति प्रक्रमः, स चान्त्रवसाहृदयकालेजकादीन्युत्पाटयति वर्णतश्च शबल:कर्बुर इत्यर्थः 4, रुद्दोवरुद्दे त्ति यः शक्तिकुन्तादिषु नारकान् प्रोतयति स रौद्रत्वाद्रौद्र इति 5, यस्तु तेषामङ्गोपाङ्गानि भनक्ति सोऽत्यन्तरौद्रत्वादुपरौद्र इति 6, काले त्ति यः कण्डादिषु पचति वर्णतः कालश्च स काल:७, महाकाले त्ति यावरे त्ति महाकाल इति चापरः परमाधार्मिक इति प्रक्रमः, स च श्लक्ष्णमांसानि खण्डयित्वा खादयति वर्णतश्च महाकाल इति 8, असिपत्ते त्ति असिः-खड्गस्तदाकारपत्रवद्वनं विकुळ यस्तत्समाश्रितान् नारकानसिपत्रपातनेन तिलशश्छिनत्ति सोऽसिपत्रः 9, धणु त्ति यो धनुर्विमुक्तार्द्धचन्द्रादिबाणैःकर्णादीनां छेदनभेदनादि करोति स धनुरिति 10, कुंभे त्ति यः कुम्भादिषु तान् पचति स कुम्भ:११, वालु त्ति यः कदम्बपुष्पाकारासुवज्राकारासुवा(सा) वैक्रियवालुकासुतप्तासुचणकानिव तान् पचति सवालुक 7 नारकान्निहतान्.... कल्पयित्वा (मु०)। 0 कालेयका० (मु०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy