________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 49 // तत्प्रधानो बादरो बादरसम्परायो निवृत्तिबादरः, अणियट्टिबायरेत्ति अनिवृत्तिबादरः, सच कषायाष्टकक्षपणारम्भान्नपुंसकवेदो- सूत्रम् 14 पशमनारम्भाच्चारभ्य बादरलोभखण्डक्षपणोपशमने यावद्भवतीति, सुहुमसंपराए त्ति सूक्ष्मः-संज्वलनलोभासङ्खयेयखण्डरूपः १४समवायः भूतग्रामादिः सम्परायः- कषायो यस्य स सूक्ष्मसम्परायो- लोभाणुवेदक इत्यर्थः, अयं च द्विविध इत्याह- उपशमको वा- उपशमश्रेणी प्रतिपन्नः क्षपको वा-क्षपकश्रेणी प्रतिपन्न इति दशमं जीवस्थानमिति, तथा उपशान्तः- सर्वथानुदयावस्थो मोहो- मोहनीयं / कर्म यस्य स उपशान्तमोहः, उपशमवीतराग इत्यर्थः, अयं चोपशमश्रेणिसमाप्तावन्तर्मुहूर्तं भवति, ततः प्रच्यवत एवेति, तथा / क्षीणो-निःसत्ताकीभूतो मोहो यस्य स तथा, क्षयवीतराग इत्यर्थः, अयमप्यन्तर्मुहूर्तमेवेति, तथा सयोगी केवली- मनःप्रभृतिव्यापारवान् केवलज्ञानीति, तथाऽयोगी केवली-निरुद्धमनःप्रभृतियोगःशैलेशीगतो ह्रस्वपञ्चाक्षरोद्रिणमात्रंकालं यावदिति। चतुर्दशं जीवस्थानमिति, भरहे इत्यादि, भारत्यैरवत्यौ जीवे, इह भरतमैरवतं चारोपितगुणकोदण्डाकारम्, अतस्तयोर्जीवे भवतः, तत्र भरतस्य हिमवतोऽर्वागनन्तरा प्रदेशश्रेणी जीवा ऐरवतस्य च शिखरिणः परतोऽनन्तरप्रदेशश्रेणीति / चातुरंतचक्कवट्टिस्स त्ति चत्वारोऽन्ता- विभागा यस्यां सा चतुरन्ता भूमिः, तत्र भवः स्वामितयेति चातुरन्तः, स चासौ चक्रवर्ती / चेतिविग्रहः, रत्नानि- स्वजातीयमध्ये समुत्कर्षवन्ति वस्तूनीति, यदाह- रत्नं निगद्यते तज्जातौ जातौ यदुत्कृष्ट मिति, गाहावइ त्ति गृहपतिः- कोष्ठागारिकः पुरोहिय त्ति पुरोहितः- शान्तिकर्मादिकारी, वड्डइ त्ति वर्द्धकि:- रथादिनिर्मापयिता, मणिःपृथिवीपरिणामः, काकणी - सुवर्णमयी अधिकरणीसंस्थानेति, इह सप्ताद्यानि पञ्चेन्द्रियाणि शेषाण्येकेन्द्रियाणीति, श्रीकान्तमित्यादीन्यष्टौ विमानानीति // 14 // 7 नन्तरप्रदेशश्रेणिर्जीवा एरावत० (मु०)10 काकिणी (मु०)। 0 विमाननामानीति (मु०)। // 49 //