________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् | // 48 // सूत्रम् 14 १४समवायः भूतग्रामादिः नवमं ति यत्र प्रत्याख्यानस्वरूपं वर्ण्यते तत्प्रत्याख्यानमिति 2 / विज्जाअणुप्पवायं ति यत्रानेकविधा विद्यातिशया वर्ण्यन्ते तद्विद्यानुप्रवादम्, अवंझपाणाउ बारसं पुव्वं ति यत्र सम्यग्ज्ञानादयोऽवन्ध्याः -सफला वर्ण्यन्ते तदवन्ध्यमेकादशम्, यत्र प्राणा: जीवा आयुश्चानेकधा वर्ण्यन्ते तत्प्राणायुरिति द्वादशं पूर्वम्, तत्तो किरियविसालं ति यत्र क्रियाः- कायिक्यादिकाः विशाला:विस्तीर्णाः सभेदत्वादभिधीयन्ते, तत् क्रियाविशालं पुव्वं तह बिंदुसारं च त्ति लोकशब्दोऽत्र लुप्तो द्रष्टव्यः, ततश्च लोकस्य बिन्दुरिवाक्षरस्य सारं- सर्वोत्तमं यत्तल्लोकबिन्दुसारमिति 3 / तथा चोद्दस वत्थूणि त्ति द्वितीयपूर्वस्य वस्तूनि-विभागविशेषाः तानि च चतुर्दश मूलवस्तूनि, चूलावस्तूनि तु द्वादशेति, तथा साहस्सिओ त्ति सहस्राण्येव साहस्यः, तथा कम्मविसोही त्यादि, कर्मविशोधिमार्गणां प्रतीत्य ज्ञानावरणादिकर्मविशुद्धिगवेषणामाश्रित्य चतुर्दश जीवस्थानानि जीवभेदाः प्रज्ञप्ताः, तद्यथामिथ्या-विपरीता दृष्टिर्यस्यासौ मिथ्यादृष्टिः- उदितमिथ्यात्वमोहनीयविशेषः, तथा सासायणसम्मदिट्ठित्ति सहेषत्तत्त्वश्रद्धानरसा स्वादनेन वर्तते इति सास्वादनः, घण्टालालान्यायेन प्रायः परित्यक्तसम्यक्त्वः तदुत्तरकालं षडावलिकः, तथा चोक्तं* उवसमसंमत्ताओ चयओ मिच्छंअपावमाणस्स।सासायणसंमत्तं तदंतरालंमि छावलियं॥१॥(विशेषा० भा०५३१) इति, सास्वादनश्वासौ सम्यग्दृष्टिश्चेति विग्रहः, सम्मामिच्छदिट्ठित्ति सम्यक्च मिथ्या च दृष्टिरस्येति सम्यग्मिथ्यादृष्टिः- उदितदर्शनमोहनीयविशेषः, तथाऽविरतसम्यग्दृष्टिर्देशविरतिरहितः, विरताविरतो- देशविरतः श्रावक इत्यर्थः, प्रमत्तसंयतः- किञ्चित्प्रमादवान् सर्वविरतः, अप्रमत्तसंयतः-सर्वप्रमादरहितः स एव, नियट्टित्ति इह क्षपकश्रेणिमुपशमश्रेणिं वा प्रतिपन्नो जीवः क्षीणदर्शनसप्तक उपशान्तदर्शनसप्तको वा निवृत्तिबादर उच्यते, तत्र निवृत्तिः- तद्गुणस्थानकं समकालं प्रतिपन्नानां जीवानामध्यवसायभेदः (r) सर्वत्र विरतः (प्र०)। // 48 //