________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् | // 47 // सूत्रम् 14 14 समवायः भूतग्रामादिः प०, जे देवा सिरिकंतं सिरिमहिअंसिरिसोमनसं लंतयं काविट्ठ महिंदकंतं महिंदुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिण देवाणं उक्कोसेणंचउद्दस सागरोवमाइंठिई प०, ते णं देवा चउद्दसहिं अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीससंति वा तेसि णं देवाणं चउद्दसहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइआ भवसिद्धिआ जीवा जे चउद्दसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संतिमुच्चिसंति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति // सूत्रम् 14 // अथ चतुर्दशस्थानकं सुबोधं च / नवरमिहाष्टौ सूत्राण्यर्वाक स्थितिसूत्रादिति, तत्र चतुर्दश भूतग्रामाः भूतानि-जीवास्तेषां ग्रामा:-समूहाः भूतग्रामाः, तत्र सूक्ष्माः सूक्ष्मनामकर्मोदयवर्त्तित्वात् पृथिव्यादय एकेन्द्रियाः, किंभूता? अपर्याप्तकाः- तत्कर्मोदयादपरिपूर्णस्वकीयपर्याप्तय इत्येको ग्रामः, एवमेते एव पर्याप्तकाः- तथैव परिपूर्णस्वकीयपर्याप्तय इति द्वितीयः, एवं बादरा बादरनामोदयात् पृथिव्यादय एव, तेऽपि पर्याप्तेतरभेदाद् द्विधा, एवं द्वीन्द्रियादयोऽपि, नवरं पञ्चेद्रियाः संज्ञिनो- मनःपर्याप्त्युपेता इतरे त्वसंज्ञिन इति / तथा उप्पायपुव्वे त्यादि गाथात्रयम्, तत्र उप्पायपुव्वमग्गेणियं च त्ति यत्रोत्पादमाश्रित्य द्रव्यपर्यायाणां प्ररूपणा कृता तदुत्पादपूर्वम्, यत्र तु तेषामेवाग्रं परिमाणमाश्रित्य तदग्रेणीयम्, तइयं च वीरियं पुव्वं ति यत्र जीवादीनां वीर्य प्रोच्यते- प्ररूप्यते तद्वीर्यप्रवादं अत्थीनत्थिपवायं ति यद्यथा लोके अस्ति नास्ति च तद्यत्र तथोच्यते तदस्तिनास्तिप्रवादं तत्तो नाणप्पवायं च त्ति यत्र ज्ञानं- मत्यादिकं स्वरूपभेदादिभिस्तद्यत्र प्रोच्यते तदस्ति ज्ञानप्रवादमिति 1 / सच्चप्पवायपुव्वं ति तत्र सत्यः- संयमः सत्यवचनं वा सभेदं सप्रतिपक्षं च प्रोच्यते तत्सत्यप्रवादपूर्वम्, तत्तो आयप्पवायपुव्वं च त्ति यत्रात्मा- जीवोsनेकनयैः प्रोच्यते तदात्मप्रवादमिति, कम्मप्पवायपुव्वं ति यत्र ज्ञानावरणादि कर्म प्रोच्यते तत्कर्मप्रवादमिति, पच्चक्खाणं भवे 0 बादरनामकर्मोदयात् (मु०)। // 47 //