SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्ग श्रीअभय वृत्तियुतम् // 45 // सूत्रम् 13 १३समवायः क्रियास्थानादिः सूत्रम् 14 १४समवायः भूतग्रामादिः विमाणपत्थड त्ति विमानप्रस्तटा औत्तराधर्यव्यवस्थिताः, तथा सोहम्मवडेंसए त्ति सौधर्मस्य देवलोकस्यार्द्धचन्द्राकारस्य पूर्वापरायतस्य दक्षिणोत्तरविस्तीर्णस्य मध्यभागे त्रयोदशप्रस्तटे शक्रावासभूतं विमानं सौधर्मावतंसकं सौधर्मदेवलोकस्यावतंसकः- शेखरकः स इव प्रधानत्वात् इत्येवं यथार्थनामकमिति, णंकारोवाक्यालङ्कारे, अर्द्ध त्रयोदशं येषु तान्यर्द्धत्रयोदशानि तानि च तानि योजनशतसहस्राणि चेति विग्रहः सार्द्धानि द्वादशेत्यर्थः, तथाऽर्द्धत्रयोदशानि जातौ- जलचरपञ्चेन्द्रियतिर्यग्जातौ कुलकोटीनां योनिप्रमुखानि- उत्पत्तिस्थानप्रभवानि यानि शतसहस्राणि तानि तथोच्यन्त इति, तथा पाणाउस्स त्ति यत्र प्राणिनामायुर्विधानं सभेदमभिधीयते तत्प्राणायुदशं पूर्वं तस्य त्रयोदश वस्तूनि- अध्ययनवद्विभागविशेषाः,तथा गर्भेगर्भाशये व्युत्क्रान्तिः- उत्पत्तिर्येषां ते गर्भव्युत्क्रान्तिकाः, तेच ते पश्चेन्द्रियतिर्यग्योनिकाश्चेति विग्रहः, प्रयोजनं- मनोवाक्कायानां व्यापारणं प्रयोगः सत्रयोदशविधः, पञ्चदशानां प्रयोगाणांमध्ये आहारकाहारकमिश्रलक्षणकायप्रयोगद्वयस्य तिरश्चामभावात्, तौ हि संयमिनामेव स्तः, संयमश्च संयतमनुष्याणामेव न तिरश्चामिति, तत्र सत्यासत्योभयानुभयस्वभावाश्चत्वारोमनःप्रयोगाः वाक्प्रयोगाश्चेति अष्टौ, पञ्च पुनरौदारिकादयः कायप्रयोगाः एवं त्रयोदशेति, तथा सूरमण्डलस्य- आदित्यविमानवृत्तस्य योजनं सूरमण्डलयोजनं तत् ण मित्यलङ्कारे त्रयोदशभिरेकषष्टिभागैर्येषां भागानामेकषष्ट्या योजनं भवति तैर्भागैर्योजनस्य सम्बन्धिभिरूनं- न्यूनं प्रज्ञप्तमष्टचत्वारिंशद्योजनभागा इत्यर्थः। वज्राभिलापेन द्वादश वइराभिलापेन लोकाभिलापेन चैकादश विमानानीति // 13 // चउद्दस भूअग्गामा प० तं०-सुहुमा अपज्जत्तआ सुहुमा पजत्तया बादरा अपज्जत्तया बादरा पज्जत्तया बेइंदिआ अपज्जत्तया बेइंदिया 7 तिर्यग्गतौ (मु०)। // 45 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy