________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 44 // लोगलेसंलोगरूवं लोगसिंगलोगसिटुंलोगकूडं लोगुत्तरवडिंसगंविमाणं देवत्ताए उववण्णा तेसिणं देवाणं उक्कोसेणं तेरस सागरोवमाई सूत्रम् 12 ठिई प०, तेणं देवा तेरसहिं अद्धमासेहिं आणमंति वा पाणमंति वा उस्ससंति वा नीस्ससंति वा तेसिणं देवाणं तेरसहिं वाससहस्सेहि 12 समवायः भिक्षुआहारट्टे समुप्पज्जइ, संतेगइआ भवसिद्धिआजीवाजे तेरसहिं भवग्गहणेहि सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति प्रतिमादिः सव्वदुक्खाणमंतं करिस्संति॥सूत्रम् 13 // अथ त्रयोदशस्थानके किञ्चिल्लिख्यते, इह स्थितिसूत्रेभ्योऽर्वागष्टसूत्राणि, तत्र करणं क्रिया-कर्मबन्धनिबन्धनचेष्टा तस्याः स्थानानि- भेदाः पर्यायाः क्रियास्थानानि, तत्रार्थाय- शरीरस्वजनधर्मादिप्रयोजनाय दण्डः- त्रसस्थावरहिंसा अर्थदण्डः क्रियास्थानमिति प्रक्रमः 1 तद्विलक्षणोऽनर्थदण्डः 2 तथा हिंसामाश्रित्य हिंसितवान् हिनस्ति हिसिष्यति वा अयं वैरिकादि समित्येवं प्रणिधानेन दण्डो-विनाशनं हिंसादण्डः 3 तथाऽकस्माद् अनभिसन्धिनाऽन्यवधार्थप्रवृत्त्या दण्डः- अन्यस्य विनाशोऽकस्माद्दण्डः 4 तथा दृष्टे:-बुद्धेर्विपर्यासिका विपर्यासिता वा दृष्टिविपर्यासिका दृष्टिविपर्यासिता वा मतिभ्रम इत्यर्थः, तया दण्डः- प्राणिवधो दृष्टिविपर्यासिकादण्डो दृष्टिविपर्यासितादण्डो वा, मित्रादेरमित्राादिबुद्ध्या हननमिति भाव: 5 तथा मृषावादः- आत्मपरोभयार्थमलीकवचनं तदेव प्रत्ययः- कारणं यस्य दण्डस्य स मृषावादप्रत्ययः६ एवमदत्तादानप्रत्ययोऽपि तथा अध्यात्मनि- मनसि भव आध्यात्मिको बाह्यनिमित्तानपेक्षः शोकाभिभव इति भावः 8 तथा मानप्रत्ययो जात्यादिमदहेतुकः 9 तथा मित्रद्वेषप्रत्ययः- मातापित्रादीनामल्पेऽप्यपराधे महादण्डनिर्वर्त्तनमिति भावः 10 मायाप्रत्ययो मायानिबन्धनः 11 एवं लोभप्रत्ययोऽपि 12 ऐर्यापथिकः केवलयोगप्रत्ययः कर्मबन्धः- उपशान्तमोहादीनां सातवेदनीयबन्धः 13 / तथा / Oसन्धिनोऽन्यवधाय प्रवृ० (मु०)।