SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रासमवाया श्रीअभय० सूत्रम् 12 १२समवायः वृत्तियुतम् // 42 // कुर्वन् प्रायश्चित्ती, चतुर्थवेलायांचालोचयन्नपि विसम्भोगार्ह इति रूपकद्वयस्य संक्षेपार्थः विस्तरार्थस्तु निशीथपञ्चमोद्देशकभाष्यादवसेय इति, तथा दुवालसावत्त किइकम्मे त्ति द्वादशावर्त कृतिकर्म- वन्दनकं प्रज्ञप्तम्, द्वादशावर्त्ततामेवास्यानुवदन् / भिक्षुशेषांश्च तद्धर्मानभिधित्सुः रूपकमाह-दुओणए त्यादि, अवनतिरवनतं- उत्तमाङ्गप्रधानं प्रणमनमित्यर्थः, द्वे अवनते यस्मिंस्त- प्रतिमादिः व्यवनतम्, तत्रैकं यदा प्रथममेव 'इच्छामिखमासमणो! वंदिउंजावणिज्जाए निसीहियाए'त्ति अभिधायावग्रहानुज्ञापनायावनमति, द्वितीयं पुनर्यदाऽवग्रहानुज्ञापनायावनमति, द्वितीयं यथाजातं- श्रमणत्वभवनलक्षणंजन्माश्रित्य योनिनिष्क्रमणलक्षणं च, तत्र रजोहरणमुखवस्त्रिकाचोलपट्टमात्रया श्रमणो जातो रचितकरपुटस्तु योन्या निर्गत एवंभूत एव वन्दते तद्व्यतिरेकाच्च यथाजातं भण्यते, कृतिकर्म- वन्दनकं बारसावयं ति द्वादशावर्ताः- सूत्राभिधानगर्भाः कायव्यापारविशेषाः यतिजनप्रसिद्धा यस्मिंस्तवादशावर्त्तम्,तथा चउसिरं ति चत्वारि शिरांसि यस्मिंस्तच्चतुःशिरः प्रथमप्रविष्टस्य क्षामणाकाले शिष्याचार्यशिरोद्वयं / पुनरपि निष्क्रम्य प्रविष्टस्य द्वयमेवेति भावना, तथा तिहि गुत्तं ति तिसृभिर्गुप्तिभिर्गुप्तम्, पाठान्तरेऽपि तिसृभिः शुद्धंगुप्तिभिरेवेति, तथा दुपवेसं ति द्वौ प्रवेशौ यस्मिंस्त द्विप्रवेशं तत्र प्रथमोऽवग्रहमनुज्ञाप्य प्रविशतो द्वितीयः पुनर्निर्गत्य प्रविशत इति, एगनिक्खमणं ति एकनिष्क्रमणमवग्रहादावश्यिक्या निर्गच्छतः, द्वितीयवेलायां ह्यवग्रहान्न निर्गच्छति, पादपतित एव सूत्रं समापयतीति, तथा विजया राजधानी असङ्ख्याततमे जम्बूद्वीपे आद्यजम्बूद्वीपविजयाभिधानपूर्वद्वाराधिपस्य विजयाभिधानस्य पल्योपमस्थितिकस्य देवस्य सम्बन्धिनीति, तथा रामो नवमोबलदेव देवत्तिं गय त्ति देवत्वं-पञ्चमदेवलोकदेवत्वं गतः, तथा सर्वजघन्या // 42 // रात्रिरुत्तरायणपर्यन्ताहोरात्रस्य रात्रिः, सा च द्वादशमौहूर्तिका चतुर्विंशतिघटिकाप्रमाणा, एवं लोकप्रसिद्धा सातिरेका साऽन्या, (c) दुवालसायते (प्र०)।® बारसाययं (प्र०)10 तिगुत्तं...गुप्तः...तिसृभिः (श्रद्धाभिः)गुप्ति (मु०)10 लोके देव० (मु०)।७०प्रमाणा, लोक० (प्र०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy