________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 41 // यत् क्षेत्रं वर्षाकल्पाद्यर्थं युगपत् व्यादिभिः साधुभिभिन्नगच्छस्थैरनुज्ञाप्यते ससाधारणो यत्तु क्षेत्रमेके साधवोऽनुज्ञाप्याश्रिताः सूत्रम् 12 स प्रत्येकावग्रह इति, एवं चैतेष्ववग्रहेषु आकुट्या अनाभाव्यं सचित्तं शिष्यमचित्तं वा वस्त्रादि गृह्णन्तोऽनाभोगेन च गृहीतं १२समवायः भिक्षुतदनर्पयन्तः समनोज्ञा अमनोज्ञाश्च प्रायश्चित्तिनो भवन्त्यसंभोग्याश्च, पार्श्वस्थादीनां चावग्रह एव नास्ति तथापि यदि तत् क्षेत्रं प्रतिमादिः क्षुल्लकमन्यत्रैव च संविग्ना निर्वहन्ति ततस्तत् क्षेत्रं परिहरन्त्येव, अथ पार्श्वस्थादिक्षेत्रं विस्तीर्णं संविग्नाश्चान्यत्र न निर्वहन्ति / ततस्तत्रापि प्रविशन्ति सचित्तादि च गृह्णन्ति प्रायश्चित्तिनोऽपिन भवन्तीति, आह च-समणुन्नमसमणुन्ने वा अदितअणाभव्वगिण्हमाणे वा। सम्भोगवीसुकरणं पृथक्करणमित्यर्थः इयरे य अलंभे पेल्लिंति॥१॥ (निशीथभा० गा०२१२४) इतरान् पार्श्वस्थादीनित्यर्थः, तथा सन्निसिज्जा य त्ति सन्निषद्या- आसनविशेषः, सा च सम्भोगासम्भोगकारणं भवति, तथाहि- संनिषद्यागत आचार्यो निषद्यागतेन सम्भोगिकाचार्येण सह श्रुतपरिवर्तनां करोति शुद्धः, अथामनोज्ञपार्श्वस्थादिसाध्वीगृहस्थैः सह तदा प्रायश्चित्ती भवति, तथा अक्षनिषद्यां विनाऽनुयोगं कुर्वतः शृण्वतश्च प्रायश्चित्तम्, तथा निषद्यायामुपविष्टः सूत्रार्थों पृच्छति अतीचारान् वाऽऽलोचयति यदि तदा तथैवेति, तथा कहाए य पबंधणे त्ति कथा- वादादिका पञ्चधा तस्याः प्रबन्धनं- प्रबन्धेन करणं कथाप्रबन्धनम्, तत्र सम्भोगासम्भोगौ भवतः, तत्र मतमभ्युपगम्य पञ्चावयवेन त्र्यवयवेन वा वाक्येन यत्तत्समर्थनं स छलजातिविरहितो भूतार्थान्वेषणपरो वादः, स एव छलजातिनिग्रहस्थानपरो जल्पः, यत्रैकस्य पक्षपरिग्रहोऽस्ति नापरस्य सा दूषणमात्रप्रवृत्ता वितण्डा, तथा प्रकीर्णकथा चतुर्थी, सा चोत्सर्गकथा द्रव्यास्तिकनयकथा वा, तथा निश्चयकथा पञ्चमी, सा चापवादकथा पर्यायास्तिकनयकथा वेति, तत्राद्यास्तिस्रः कथाः श्रमणीवजैः सह करोति, श्रमणीभिस्तु सह पार्श्वस्थादीनां क्षेत्रं (मु०)। 0 समनोज्ञामनोज्ञयोरदत्तमनाभाव्ये गृह्णति वा / संभोगविष्वक्करणं इतरांश्वालाभे प्रेरयन्ति // 1 // 8 // 41 //