________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 40 // विसम्भोग्यश्चेति, तथा दायणे य त्ति दानम्, तत्र सम्भोगिकः सम्भोगिकाय वस्त्रादिभिः शिष्यगणोपग्रहासमर्थे सम्भोगिके सूत्रम् 12 |ऽन्यसम्भोगिकाय वा शिष्यगणं यच्छन् शुद्धः, निष्कारणं विसम्भोगिकस्य पार्श्वस्थादेर्वा संयत्या वा तं यच्छंस्तथैव सम्भोग्यो 12 समवायः भिक्षुविसम्भोग्यश्चेति, तथा निकाए यत्ति निकाचनं छन्दनं निमन्त्रणमित्यनर्थान्तरम्, तत्र शय्योपध्याहारैः शिष्यगणप्रदानेन स्वाध्यायेन प्रतिमादिः च सम्भोगिकः सम्भोगिकं निमन्त्रयन् शुद्धः, शेषं तथैव, तथा अब्भुट्ठाणेत्ति यावरे त्ति अभ्युत्थानमासनत्यागरूपमित्यपरं सम्भोगासम्भोगस्थानमित्यर्थः, तत्राभ्युत्थानं पार्श्वस्थादेः कुर्वंस्तथैवासम्भोग्यः, उपलक्षणत्वाचाभ्युत्थानस्य किङ्करतांचप्राघूर्णकग्लानाद्यवस्थायां किं विश्रामणादि करोमीत्येवंप्रश्नलक्षणां तथाऽभ्यासकरणं- पार्श्वस्थत्वादिधर्माच्च्युतस्य पुनस्तत्रैव संस्थापनलक्षणम्, तथा अविभक्तिं च-अपृथग्भावलक्षणां कुर्वन्त्रशुद्धोऽसम्भोग्यश्चापि, एतान्येव यथाऽऽगमं कुर्वन् / शुद्धः सम्भोग्यश्चेति, तथा किइकम्मस्स य करणे त्ति कृतिकर्म- वन्दनकं तस्य करणं-विधानं तद्विधिना कुर्वन् शुद्धः, इतरथा / तथैवासम्भोग्यः, तत्र चायं विधिः- यः साधुर्वातेन स्तब्धदेह उत्थानादि कर्तुमशक्त : ससूत्रमेवास्खलितादिगुणोपेतमुच्चारयति, एवमावर्त्तशिरोनमनादिना यच्छक्नोति तत्करोत्येवं चाशठप्रवृत्तिर्वन्दनकविधिरिति भावः,तथा वेयावच्चकरणे इयत्ति वैयावृत्यं-8 आहारोपधिदानादिना प्रश्रवणादिमात्रकार्पणादिनाऽधिकरणोपशमनेन सहायदानेन वोपष्टम्भकरणंतस्मिंश्च विषये सम्भोगासम्भोगौ भवत इति, तथा समोसरणं ति जिनस्नपनरथानुयानपटयात्रादि यत्र बहवः साधवो मिलन्ति तत्समवसरणम्, इह च क्षेत्रमाश्रित्य साधूनां साधारणोऽवग्रहो भवति, वसतिमाश्रित्य साधारणोऽसाधारणो वेति, अनेन चान्येऽप्यवग्रहा उपलक्षिताः, ते चानेके, तद्यथा-वर्षावग्रह ऋतुबद्धावग्रहो वृद्धवासावग्रहश्चेति, एकैकश्चायं साधारणावग्रहः प्रत्येकावग्रहश्चेति द्विधा, तत्र 0०त्वादभ्युत्था० (मु०)। 0 पार्श्वस्थादि० (मु०)। 0 शमनेन चोपष्टम्भ० (प्र०)। 0 पट्टयात्रादिषु (मु०)।