________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 39 // सूत्रम् 12 १२समवायः | भिक्षुप्रतिमादिः स्थानमुत्तानादिकं च स्थानमिति, नवम्यांतु उत्कुटुकाद्यासनेन विशेषः, दशम्यां वीरासनादिना, तथा अहोरात्रप्रमाणाऽहोरात्रिकी एकादशी, सा च षष्ठभक्तेन भवतीति विशेषः, एकरात्रिकी-रात्रिप्रमाणा, सा चाष्टमभक्तेन रात्रौ प्रलम्बभुजस्य संहतपादस्येषदवनतकायस्यानिमेषनयनस्येति / तथा सम्- एकीभूय समानसमाचाराणांसाधूनां भोजनं सम्भोगः, सचोपध्यादिलक्षणविषयभेदात् द्वादशधा, तत्र उवही त्यादिरूपकद्वयम्, तत्रोपधिर्वस्त्रपात्रादिस्तं सम्भोगिकः सम्भोगिकेन सार्द्धमुद्गमोत्पादनैषणादोषैर्विशुद्धं गृह्णन् शुद्धः, अशुद्धं गृह्णन् प्रेरितः प्रतिपन्नप्रायश्चित्तो वारात्रयं यावत्सम्भोगार्हश्चतुर्थवेलायां प्रायश्चित्तं प्रतिपद्यमानोऽपि विसम्भोगार्ह इति, विसम्भोगिकेन वा-पार्श्वस्थादिना वा संयत्या वासार्द्धमुपधिं शुद्धमशुद्धंवा निष्कारणं गृह्णन् प्रेरितः प्रतिपन्नप्रायश्चित्तोऽपिवेलात्रयस्योपरि न सम्भोग्यः, एवमुपधेः परिकर्म परिभोगंवा कुर्वन् सम्भोग्यो विसम्भोग्यश्चेति, उक्तं च- एग व दो व तिन्नि व आउटुंतस्स होइ पच्छित्तं। आलोचयत इत्यर्थः / आउटुंतेवि तओ परेण तिण्हं विसंभोगो॥१॥ (निशीथभा० गा०२०७५) त्ति तथा सुयत्ति सम्भोगिकः संभोगिकस्य विसंभोगिकस्य वोपसम्पन्नस्य श्रुतस्य वाचनाप्रच्छनादिकं विधिना कुर्वन् शुद्धः, तस्यैवाविधिनोपसम्पन्नस्यानुपसम्पन्नस्य वा पार्श्वस्थादेर्वा स्त्रिया वा वाचनादि कुर्वंस्तथैव वेलात्रयोपरि विसम्भोग्यः, तथा भत्तपाणे त्ति उपधिद्वारवदवसेयम्, नवरमिह भोजनंदानं च परिकर्मपरिभोगयोः स्थाने वाच्यमिति, तथा अंजलीपग्गहेत्ति यइहेतिशब्दा उपदर्शनार्थाः, चकाराः समुच्चयार्थाः, तत्रोपलक्षणत्वादञ्जलिप्रग्रहस्य वन्दनादिकमपीह द्रष्टव्यम्, तथाहि-सम्भोगिकानामन्यसम्भोगिकानां वा संविग्नानां वन्दनकं-प्रणाममञ्जलिप्रग्रहं नमः क्षमाश्रमणेभ्य इति भणनम्, आलोचनासूत्रार्थनिमित्तनिषद्याकरणंच कुर्वन् शुद्धः पार्श्वस्थादेरेतानि कुर्वंस्तथैव सम्भोग्यो 0 उत्कटुकाद्या० (मु०)।® चाष्टमभक्तपर्यन्तरात्रौ (मु०)। 0 साम्भोगि० (मु०)। 0 वारत्रयं (मु०)। // 39 //