________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 36 // सूत्रम् 11 ११समवायः उपासकप्रतिमादिः भिक्षां दत्तेति भाषमाणस्य कस्त्वमिति कस्मिंश्चित्पृच्छति प्रतिमाप्रतिपन्नः श्रमणोपासकोऽहमिति ब्रुवाणस्यैकादश मासान् यावदेकादशी प्रतिमा भवतीति, पुस्तकान्तरे त्वेवं वाचना-दंसणसावए प्रथमा, कयवयकम्मे द्वितीया, कयसामाइए तृतीया, पोसहोववासनिरए चतुर्थी, राइभत्तपरिणाए पञ्चमी, सचित्तपरिणाए षष्ठी, दिया बंभयारी राओ परिमाणकडे सप्तमी, दियावि राओवि बंभयारी असिणाणए यावि भवति वोसट्टकेसरोमनहे अष्टमी, आरंभपरिणाए पैसपरिणाए नवमी, उद्दिट्ठभत्तवज्जए दशमी, समणभूए यावि भवइत्ति समणाउसो एकादशीति, क्वचित्तु आरम्भपरिज्ञात इति नवमी, प्रेष्यारम्भपरिज्ञात इति दशमी, उद्दिष्टभक्तवर्जकः श्रमणभूतश्चैकादशीति, तथा जम्बूद्वीपे 2 मन्दरस्य पर्वतस्य एगादस एगविंसे त्ति एकविंशतियोजनाधिकानि (एकादश योजनशतानि) अबाहाए त्ति अबाधया व्यवधानेन कृत्वेति शेषः ज्योतिष-ज्योतिश्चक्रं चार- परिभ्रमणं चरति- आचरति, तथा लोकान्तात् णमित्यलङ्कारे एकादश एक्कारे त्ति एकादशयोजनाधिकानि (एकादश योजनशतानि)अबाधया- व्यवहिततयांकृत्वेति शेषः, जोतिसंते ति ज्योतिश्चक्रपर्यन्तः प्रज्ञप्त इति, इदंच वाचनान्तरं व्याख्यातम्, उक्तं च- एक्कारसेक्कवीसा सय एक्काराहिया य एक्कारा / मेरुअलोगाबाहं जोइसचक्कं चरइ ठाइ // 1 // (बृहत्सं० गा० 105) इति, अधिकृतवाचनायां पुनरिदमनन्तरव्याख्यातमालापकद्वयं व्यत्ययेन दृश्यते, विमाणसयं भवतित्तिमक्खायं ति इह मकारस्यागमिकत्वादयमर्थो- विमानशतं भवतीतिकृत्वा आख्यातं- प्ररूपितं भगवता अन्यैश्च केवलिभिरिति सुधर्मस्वामिवचनम्, तथा मंदरे णं पवए धरणितलाओ सिहरतले एक्कारसभागपरिहीणे उच्चत्तेणं पण्णत्ते अस्यायमर्थः- मेरुर्भूतलादारभ्य शिखरतलमुपरिभागं यावद्विष्कम्भापेक्षयाऽङ्गलादेरेकादशभागेनैकादशभागेन परिहीणो-हानिमुपगतः उच्चत्वेन- उपर्युपरि प्रज्ञप्तः, इयमत्र 0 पेसणपरि (मु०)। (c) बाधारहिततया (मु०)। // 36 //