SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 35 // सूत्रम् 11 11 समवाय उपासकप्रतिमादिः विकटे प्रकटे प्रकाशे दिवान रात्रावित्यर्थः, दिवापिचाप्रकाशदेशेन भुङ्क्ते- अशनाद्यभ्यवहरतीति विकटभोजी, मोलिकडे त्ति अबद्धपरिधानकच्छ इत्यर्थः, षष्ठप्रतिमेति प्रकृतम्, अयमत्र भाव:- प्रतिमापञ्चकोक्तनुष्ठानयुक्तस्य ब्रह्मचारिणः षण्मासान् ®यावत्षष्ठी प्रतिमा भवतीति, तथा सचित्त इति सचेतनाहारः परिज्ञातः- तत्स्वरूपादिपरिज्ञानात्प्रत्याख्यातो येन स सचित्ताहार परिज्ञातः श्रावकः सप्तमी प्रतिमेति प्रकृतम्, इयमत्र भावना पूर्वोक्तप्रतिमाषट्कानुष्ठानयुक्तस्य प्रासुकाहारस्य सप्त मासान् यावत्सप्तमी प्रतिमा भवतीति,तथा आरम्भः-पृथिव्याधुपमर्दनलक्षणः परिज्ञातः- तथैव प्रत्याख्यातो येनासावारम्भपरिज्ञातः श्राद्धोऽष्टमप्रतिमेति, इह भावना- समस्तपूर्वोक्तानुष्ठानयुक्तस्यारम्भवर्जनमष्टौ मासान् यावदष्टमी प्रतिमेति, तथा प्रेष्याआरम्भेषु व्यापारणीया: परिज्ञाता:- तथैव प्रत्याख्याता येन सप्रेष्यपरिज्ञातः श्रावको नवमीति, भावार्थश्चेह पूर्वोक्तानुष्ठायिनः आरम्भं परैरप्यकारयतो नव मासान्यावन्नवमी प्रतिमेति, तथा उद्दिष्ट-तमेव श्रावकमुद्दिश्य कृतं भक्तं- ओदनादि उद्दिष्टभक्तं तत्परिज्ञातं येनासावुद्दिष्टभक्तपरिज्ञातः प्रतिमेति प्रकृतम्, इहायं भावार्थः- पूर्वोदितगुणयुक्तस्याधाकर्मिकभोजनपरिहारवतः क्षुरमुण्डितशिरसः शिखावतो वा केनापि किश्चिद्गृहव्यतिकरे पृष्टस्य तज्ज्ञाने सति जानामीति अज्ञाने च सति न जानामीति ब्रुवाणस्य दशमासान् यावद् एवंविधविहारस्य दशमी प्रतिमेति, तथा श्रमणो निर्ग्रन्थस्तद्वद्यस्तदनुष्ठानकरणात् स श्रमणभूतः, साधुकल्प इत्यर्थः, चकारः समुच्चये, अपिः सम्भावने, भवति श्रावक इति प्रकृतम्, हे श्रमण! हे आयुष्मन्! इति सुधर्मस्वामिना जम्बूस्वामिनमामन्त्रयतोक्तं इत्येकादशीति, इह चेयं भावना- पूर्वोक्तसमग्रगुणोपेतस्य क्षुरमुण्डस्य कृतलोचस्य वा गृहीतसाधुनेपथ्यस्य ईर्यासमित्यादिकं साधुधर्ममनुपालयतो भिक्षार्थं गृहिकुलप्रवेशे सति श्रमणोपासकाय प्रतिमाप्रतिपन्नाय ©पादिप्रतिज्ञा० (प्र०)। (c) यावदुत्कर्षेण एवं (मु०)। 35 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy