SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 34 // सूत्रम् 11 11 समवायः उपासक| प्रतिमादिः देशतो येनस सामायिककृतः, आहिताग्न्यादिदर्शनात् क्तान्तस्योत्तरपदत्वम्, तदेवमप्रतिपन्नपौषधस्य दर्शनव्रतोपेतस्य प्रतिदिनमुभयसन्ध्यं सामायिककरणं मासत्रयं यावदिति तृतीया प्रतिमेति, तथा पोषं-पुष्टिं कुशलधर्माणां धत्ते यदाहारत्यागादिकमनुष्ठानंतत्पौषधं तेनोपवसनं-अवस्थानमहोरात्रंयावदिति पौषधोपवास इति, अथवा पौषधं-पर्वदिनमष्टम्यादितत्रोपवास:अभक्तार्थः पौषधोपवास इति, इयं व्युत्पत्तिरेव, प्रवृत्तिस्त्वस्य शब्दस्याहारशरीरसत्काराब्रह्मचर्यव्यापारपरिवर्जनेष्विति, तत्र पौषधोपवासे निरतः- आसक्तः पौषधोपवासनिरतः स एवंविधश्रावकश्चतुर्थी प्रतिमेति प्रक्रमः, अयमत्र भावः- पूर्वप्रतिमात्रयोपेतः अष्टमीचतुर्दश्यमावास्यापौर्णमासीष्वाहारपौषधादिचतुर्विधं पौषधं प्रतिपद्यमानस्य चतुरोमासान् यावच्चतुर्थप्रतिमा भवतीति, तथा पञ्चमप्रतिमायामष्टम्यादिषु पर्वस्वेकरात्रिकप्रतिमाकारी भवतीति, एतदर्थं च सूत्रमधिकृतसूत्रपुस्तकेषु न दृश्यते दशादिषु पुनरुपलभ्यते इति तदर्थ उपदर्शितः, तथा शेषदिनेषु दिवा ब्रह्मचारी रत्तिं ति रात्रौ, किं? अत आह- परिमाणं स्त्रीणां तद्भोगानांवा प्रमाणं कृतं येन स परिमाणकृत इति, अयमत्र भावो-दर्शनव्रतसामायिकाष्टम्यादिपौषधोपेतस्य पर्वस्वेकरात्रिकप्रतिमाकारिणः शेषदिनेषु दिवा ब्रह्मचारिणो रात्रावब्रह्मपरिमाणकृतोऽस्नानस्यारात्रिभोजिनः अबद्धकच्छस्य पञ्च मासान् यावत्पञ्चमी प्रतिमा भवतीति, उक्तं च-अट्ठमिचउद्दसीसुं पडिमं ठाएगराईयं // पश्चार्द्ध / / असिणाणवियडभोई मउलियडो दिवसबंभयारी या रत्तिं परिमाणकडो पडिमावज्जेसु दियहेसु॥१॥ (पञ्चा० 10/17-18) त्ति // तथा दिवापि रात्रावपि ब्रह्मचारी, असिणाइ त्ति अस्नायी स्नानपरिवर्जकः, क्वचित्पठ्यते- अनिसाइ त्ति न निशायामत्तीत्यनिशादी, वियडभोई त्ति निरतः (य:) सः, एवंविधस्य श्रावकस्य च० (मु०)10 अष्टमीचतुर्दश्योः प्रतिमां करोत्येकरात्रिकीम् / अस्नानो दिवसभोजी मुत्कलकच्छ: दिवा ब्रह्मचारी च। रात्री कृतपरिमाणः प्रतिमावर्जेषु दिवसेषु // 1 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy