________________ सूत्रमा ११समवायः श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 33 // उपासकप्रतिमादिः तलाओ सिहरतले एक्कारसभागपरिहीणे उच्चत्तेणं प०, इमीसेणं रयणप्पभाए पुढवीए अत्थेगइयाणं नेरइयाणं एक्कारस पलिओवमाई ठिई प०, पंचमीए पुढवीए अत्थेगइयाणं नेरइयाणं एक्कारस सागरोवमाई ठिई प०, असुरकुमाराणं देवाणं अत्थेगइयाणं एकारस पलिओवमाई ठिई प०, सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं एक्कारस पलिओवमाई ठिई प०, लतए कप्पे अत्थेगइयाणं देवाणं एक्कारस सागरोवमाइं ठिई प०,जे देवा बंभं सुबंभं बंभावत्तं बंभप्पभं बंभकंतं बंभवण्णं बंभलेसंबंभज्झयं बंभसिंगंबंभसिटुं बंभकूडं बंभुत्तरवडिंसगं विमाणं देवत्ताए उववण्णा तेसिणं देवाणं एक्कारस सागरोवमाइंठिई प०, तेणं देवा एकारसण्हं अद्धमासाणं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा तेसि णं देवाणं एक्कारसण्हं वाससहस्साणं आहारट्टे समुप्पज्जइ, संतेगइआ भवसिद्धिआजीवा जे एक्कारसहिं भवग्गहणेहिं सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति ॥सूत्रम् 11 // अथैकादशस्थानम्, तदपि गतार्थम्, नवरमिह प्रतिमाद्यर्थानि सूत्राणि सप्त, स्थित्याद्यर्थानि तु नवेति, तत्रोपासते-सेवन्ते श्रमणान् ये ते उपासका:- श्रावकास्तेषां प्रतिमाः- प्रतिज्ञा अभिग्रहाँ उपासकप्रतिमाः, तत्र दर्शनं- सम्यक्त्वं तत्प्रतिपन्नः श्रावको दर्शनश्रावकः, इह च प्रतिमानां प्रक्रान्तत्वेऽपि प्रतिमाप्रतिमावतोरभेदोपचारात्प्रतिमावतो निर्देशः कृतः, एवमुत्तरपदेष्वपि, अयमत्र भावार्थः- सम्यग्दर्शनस्य शङ्कादिशल्यरहितस्याणुव्रतादिगुणविकलस्य योऽभ्युपगमः सा प्रतिमा प्रथमेति, तथा कृतं- अनुष्ठितं व्रतानां अणुव्रतादीनां कर्म- तच्छ्रवणज्ञानवाञ्छाप्रतिपत्तिलक्षणं येन प्रतिपन्नदर्शनेन स कृतव्रतकर्मा प्रतिपन्नाणुव्रतादिरिति भावः, इयं द्वितीया, तथा सामायिक-सावद्ययोगपरिवर्जननिरवद्ययोगासेवनस्वभावं कृतं-विहितं ®ग्रहरूपाः (मु०)। 0 इतीयं (मु०)।