SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 31 // सूत्रम् 10 १०समवायः श्रमणधर्मादिः शुभस्वप्नफलस्य दर्शनाय साधोः स्वप्नदर्शनमुपजायत इति भावः, क्वचित् सुजाणं ति पाठः, तत्रावितथमवश्यंभावि सुयानं- सुगतिं द्रष्टुं- ज्ञातुं सुज्ञानं वा भाविशुभार्थपरिच्छेदं संवेदितुमिति, कल्याणसूचकावितथस्वप्नदर्शनाच्च भवति चित्तसमाधिरिति चित्तसमाधिस्थानमिदं द्वितीयम्, तथा संज्ञानं संज्ञा सा च यद्यपि हेतुवाददृष्टिवाददीर्घकालिकोपदेशभेदेन क्रमेण विकलेन्द्रियसम्यग्दृष्टिसमनस्कसम्बन्धित्वात्रिधा भवति तथापीह दीर्घकालिकोपदेशसंज्ञा ग्राह्येति, सा यस्यास्ति ससंज्ञी-समनस्कस्तस्य ज्ञानं संज्ञिज्ञानम्, तच्चेहाधिकृतसूत्रान्यथानुपपत्तेर्जातिस्मरणमेव, तद्वा से तस्यासमुत्पन्नपूर्वंसमुत्पद्येत, कस्मै प्रयोजनाय? इत्याह- पुव्वभवे सुमरित्तए त्ति पूर्वभवान् स्मर्तुम्, स्मृतपूर्वभवस्य च संवेगात्समाधिरुत्पद्यते इति | समाधिस्थानमेतत् तृतीयमिति, तथा देवदर्शनं वा से तस्यासमुत्पन्नपूर्वं समुत्पद्यते, देवा हि तस्य गुणित्वाद्दर्शनं ददति, किं फलं? इत्याह- दिव्यां देवर्द्धि-प्रधानपरिवारादिरूपां दिव्यां देवद्युति-विशिष्टां शरीराभरणादिदीप्तिं दिव्यं देवानुभावं- उत्तमवैक्रियकरणादिप्रभावंद्रष्टुम्, एतद्दर्शनायेत्यर्थः, देवदर्शनाच्चागमार्थेषु श्रद्धानदाय धर्मे बहुमानश्च भवतीति ततश्चित्तसमाधिरिति भवति देवदर्शनं चित्तसमाधिस्थानमिति चतुर्थम्, तथा अवधिज्ञानं वा से तस्यासमुत्पन्नपूर्वं समुत्पद्येत, किमर्थं इत्याह-अवधिनामर्यादया नियतद्रव्यक्षेत्रकालभावरूपेण लोकं ज्ञातुं लोकज्ञानायेत्यर्थः, भवति च विशिष्टज्ञानाच्चित्तसमाधिरिति पञ्चम तदिति, एवमवधिदर्शनसूत्रमपीति षष्ठम्, तथा मनःपर्यवज्ञानं वा से तस्यासमुत्पन्नपूर्वं समुत्पद्येत, किमर्थं अत आह- मणोगते। भावे जाणित्तए अर्द्धतृतीयद्वीपसमुद्रेषु संज्ञिनां पञ्चेन्द्रियाणां पर्याप्तकानां मनोगतान् भावान् ज्ञातुम्, एतज्ज्ञानायेत्यर्थ इति सप्तमम्, तथा केवलज्ञानं वा से तस्यासमुत्पन्नपूर्वं समुत्पद्येत, केवलं- परिपूर्ण लोक्यते- दृश्यते केवलालोकेनेति लोको0 तस्यानुत्पन्न० (प्र०)। (c) केवल:- परिपूर्णः... लोकालोकस्वरूपं (मु०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy