________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 30 // सूत्रम् 10 १०समवायः श्रमणधर्मादिः देवाणं दसहिं वाससहस्सेहिं आहारट्टे समुप्पज्जइ, संतेगइआ भवसिद्धिया जीवाजे दसहिं भवग्गहणेहि सिज्झिस्संति बुज्झिस्संति मुच्चिस्संति परिनिव्वाइस्संति सव्वदुक्खाणमंतं करिस्संति // सूत्रम् 10 // दशस्थानकं सुबोधमेव तथापि किञ्चिल्लिख्यते, इह पञ्चविंशतिः सूत्राणि, तत्र लाघवं द्रव्यतोऽल्पोपधिता भावतो गौरवत्यागः, त्यागः सर्वसङ्गानां संविग्नमनोज्ञसाधुदानं वा ब्रह्मचर्येण वसनं- अवस्थानं ब्रह्मचर्यवास इति, तथा चित्तस्यमनसः समाधिः-समाधानं प्रशान्तता तस्य स्थानानि-आश्रया भेदा वा चित्तसमाधिस्थानानि, तत्र धर्मा-जीवादिद्रव्याणामुपयोगोत्पादादयः स्वभावास्तेषां चिन्ता- अनुप्रेक्षा धर्मस्य वा-श्रुतचारित्रात्मकस्य सर्वज्ञभाषितस्य हरिहरादिनिगदितधर्मेभ्यः प्रधानोऽयमित्येवं चिन्ता धर्मचिन्ता, वाशब्दो वक्ष्यमाणसमाधिस्थानान्तरापेक्षया विकल्पार्थः से इति यः कल्याणभागी तस्य साधोरसमुत्पन्नपूर्वा- पूर्वस्मिन्ननादौ अतीते कालेऽनुपजाता तदुत्पादे झपार्द्धपुद्गलपरावर्तान्ते कल्याणस्यावश्यंभावात् समुत्पद्येत- जायेत, किं प्रयोजना चेयमत आह- सर्वं- निरवशेषं धर्मं- जीवादिद्रव्यस्वभावमुपयोगोत्पादादिकं श्रुतादिरूपंवा जाणित्तए ज्ञपरिज्ञया ज्ञातुंज्ञात्वा च प्रत्याख्यानपरिज्ञया परिहरणीयधर्म परिहर्तुम्, इदमुक्तं भवति-धर्मचिन्ता धर्मज्ञानकारणभूता जायत इति, इयंचसमाधेरुक्तलक्षणस्य स्थानमुक्तलक्षणमेव भवतीति प्रथमम्, तथास्वप्नस्य-निद्रावशविकल्पज्ञानस्य दर्शनं- संवेदनं स्वप्नदर्शनं तद्वा कल्याणप्राप्तिसूचकमसमुत्पन्नपूर्वं समुत्पद्येत, यथा भगवतो महावीरस्यास्थिकग्रामे शूलपाणियक्षकृतोपसर्गावसाने, किं प्रयोजनं चेदं? इत्याह- आहातच्चं सुमिणं पासित्तए त्ति यथा- येन प्रकारेण तथ्यः-सत्यो यथातथ्यः सर्वथा निर्व्यभिचार इत्यर्थस्तम्,स्वप्न:-स्वप्नफलमुपचारात्तंद्रष्टुं-ज्ञातुम्, अवश्यंभाविनोमुक्त्यादेः (r) दशमं स्था० (मु०)। 0 जायेत् सः, किं प्रयोजनाय चे० (मु०)। O०णीयकर्म (मु०)। 0 समुत्पद्यते, तद् यथा (मु०)। 8 // 30 //