________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 27 // सव्वदुक्खाणमंतं करिस्संति॥सूत्रम् // सूत्रम् 9 अथ नवस्थानकं सुबोधम्, नवरमिह ब्रह्मगुप्ति 1 तदगुप्ति 2 ब्रह्मचर्याध्ययन 3 पार्थिं 4 सूत्राणां चतुष्टयं ज्योतिष्कार्थं ९समवायः ब्रह्मचर्यत्रयं मत्स्य 1 भौम 2 सभा 3 दर्शनावरणार्थं 4 चतुष्टयं स्थित्याद्यर्थानि तथैव, तत्र ब्रह्मचर्यगुप्तयो मैथुनविरतिपरिरक्षणोपायाः गुप्त्यादिः नो स्त्रीपशुपण्डकैः संसक्तानि- सङ्कीर्णानि शय्यासनानि-शयनीयविष्टराणि वसत्यासनानि वा सेवयिता भवतीत्येका 1, नो स्त्रीणां कथाःकथयिता भवतीति द्वितीया 2, नो स्त्रीगणान्- स्त्रीसमुदायान् सेवयिता उपासयिता भवतीति तृतीया 3, नो स्त्रीणामिन्द्रियाणि नयननासावंशादीनि मनोहराणि आक्षेपकत्वात् मनोरमाणि रम्यतयाऽऽलोकयिता- द्रष्टा निर्ध्याता- तदेकानचित्ततया द्रष्टैव भवतीति चतुर्थी 4, नो प्रणीतरसभोजी गलत्स्नेहरसबिन्दुकस्य भोजनस्य भोजको भवतीति पञ्चमी 5, नो पानभोजनस्यातिमात्रं- अप्रमाणं यथा भवत्येवमाहारकः सदा भवतीति षष्ठी 6, नो पूर्वरतपूर्वक्रीडितमनुस्म" भवति, रतं मैथुनं क्रीडितं स्त्रीभिः सह तदन्या क्रीडेति सप्तमी 7, नो शब्दानुपाती नो रूपानुपाती नो गन्धानुपाती नो रसानुपाती नो स्पर्शानुपाती नो श्लोकानुपाती कामोद्दीपकान् शब्दादीनात्मनो वर्णवादं च नानुपतति-नानुसरतीत्यर्थ इत्यष्टमी 8, नो सातसौख्यप्रतिबद्धश्चापि भवति सातात्- सातवेदनीयादुदयप्राप्ताद्यत्सौख्यं तत्तथा, अनेन च प्रशमसुखस्य व्युदास इति नवमी 9, इदं च व्याख्यानं / वाचनाद्वयानुसारेण कृतम्, प्रत्येकं वाचनयोरेवंविधसूत्राभावादिति, तथा कुशलानुष्ठानं ब्रह्मचर्यं तत्प्रतिपादकान्यध्ययनानि ब्रह्मचर्याणि तानि चाचाराङ्गप्रथमश्रुतस्कन्धप्रतिबद्धानीति, तथा अभिजिन्नक्षत्रं साधिकान्नव मुहूर्तांश्चन्द्रेण सार्द्धं योग संबन्धं 7 नवमस्थानकं सुखावबो० (मु०)। 7 नयननाशा......आक्षेपकरत्वात् (मु०)। 0 अतिप्रमाणं (मु०)। प्रत्येकवाचनयोरेवंविधसूत्रभावा० (मु०)। // 27 //