________________ समवायः श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् | // 15 // कषायध्यानादिः तओ इत्यादि सर्वं सुगमम्, नवरमिह दण्डगुप्तिशल्यगौरवविराधनार्थं सूत्राणां पञ्चकम्, नक्षत्रार्थं सप्तकम्, स्थित्यर्थं / नवकम्, उच्छ्रासाद्यर्थं त्रयमिति, तत्र दण्ड्यते-चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डाः- दुष्प्रयुक्तमनःप्रभृतयः मन एव दण्डो मनोदण्डो मनसा वा दुष्प्रयुक्तेनात्मनो दण्डो- दण्डनं मनोदण्डः एवमितरावपि, तथा गोपनानि गुप्तयःमनःप्रभृतीनामशुभप्रवृत्तिनिरोधनानि शुभप्रवृत्तिकरणानि चेति / तथा तोमरादिशल्यानीव शल्यानि दुःखदायकत्वात् मायादीनि, तत्र माया- निकृतिः, सैव शल्यं मायाशल्यम्, णं कारो वाक्यालङ्कार एवमितरे अपि, नवरं निदानं देवादिऋद्धीनां दर्शनश्रवणाभ्यामितो ब्रह्मचर्यादरेनुष्ठानान्ममैता भूयासुरित्यध्यवसायो मिथ्यादर्शनं- अतत्त्वार्थश्रद्धानमिति / तथा गौरवाणिअभिमानलोभाभ्यामात्मनोऽशुभभावगुरुत्वानि तानि च संसारचक्रवालपरिभ्रमणहेतुकर्मनिदानानि, तत्र ऋद्ध्या- नरेन्द्रादि-8 पूज्याचार्यत्वादिलक्षणया गौरवमृद्धिगौरवम्, ऋद्धिप्राप्त्यभिमानतदप्राप्तिप्रार्थनद्वारेणात्मनोऽशुभभावगौरवमित्यर्थः, एवं रसेन गौरवं रसगौरवम्, सातेन गौरवं सातगौरवं चेति / तथा विराधनाः- खण्डनाः, तत्र ज्ञानस्य विराधना ज्ञानविराधना- ज्ञानप्रत्यनीकतानिह्नवादिरूपा एवमितरे अपि, नवरं दर्शनं-सम्यग्दर्शनं क्षायिकादि, चारित्रं-सामायिकादीति / तथा असङ्ख्यातवर्षायुषां पञ्चेन्द्रियतिर्यग्मनुष्याणां देवकुरूत्तरकुरुजन्मनां त्रीणि पल्योपमानीति, तथा आभङ्करं प्रभङ्करं आभङ्करप्रभङ्करं चन्द्रं चन्द्रावत / चन्द्रप्रभं चन्द्रकान्तं चन्द्रवर्णं चन्द्रलेश्यं चन्द्रध्वजं चन्द्रशृङ्गं चन्द्रशिष्टं चन्द्रकूटं चन्द्रोत्तरावतंसकं विमानमिति // 3 // P चत्तारि कसाया प० तं०- कोहकसाए माणकसाए मायाकसाए लोभकसाए, चत्तारि झाणा प० तं०- अट्टज्झाणे रुद्दज्झाणे धम्मज्झाणे सुक्कज्झाणे, चत्तारि विगहाओ प० तं०- इथिकहा भत्तकहा रायकहा देसकहा, चत्तारि सण्णा प० तं०- आहार० 7 तथा (मु०)। (c) 'ण'मित्यलङ्कारे (मु०)। (c) सातया (मु०)। 7 चन्द्रसृष्टं (मु०)।