SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ सूत्रम् 2 श्रीअभय० वृत्तियुतम् // 12 // २समवायः दण्डराशिबन्धनानि सुसागरं सागरकान्तं भवं मनुं मानुषोत्तरं लोकहितमिह चकारो द्रष्टव्यः, समुच्चयस्य द्योतनीयत्वाद्, विमानं- देवनिवासविशेषमासाद्येति शेषः, देवत्वेन न तु देवीत्वेन तासां सागरोपमस्थितेरसम्भवात्, उत्पन्ना जातास्तेषां देवानामेकं सागरोपमं स्थितिरिति, एतानि च विमानानि सप्तमप्रस्तटेऽवसेयानि। स्थित्यनुसारेण च देवानामुच्छ्रासादयो भवन्तीति तान् दर्शयन्नाहते ण मित्यादि, येषां देवानामेकं सागरोपमं स्थितिस्ते देवा णमित्यलङ्कारे अर्द्धमासस्यान्ते इति शेषः, आनन्ति प्राणन्ति, एतदेव क्रमेण व्याख्यानयन्नाह- उच्छ्रसन्ति निःश्वसन्ति, वाशब्दाः विकल्पार्थाः, तथा तेषामेव वर्षसहस्रस्यान्ते इति शेषः, आहारार्थः-8 आहारप्रयोजनमाहारपुद्गलानां ग्रहणमाभोगतो भवति, अनाभोगतस्तु प्रतिसमयमेव विग्रहादन्यत्र भवतीति, गाथेह- जस्स जइ सागरोवमाई ठिई तस्स तत्तिएहिँ पक्खेहिं / ऊसासो देवाणं वाससहस्सेहिं आहारो // 1 // (बृहत्सं० गा० 214) त्ति, सन्तिविद्यन्ते एगइया एके केचन भवसिद्धिय त्ति भवा- भाविनी सिद्धिः- मुक्तिर्येषां ते भवसिद्धिका:- भव्याः भवग्गहणेणं ति भवस्य-मनुष्यजन्मनो ग्रहणं- उपादानं भवग्रहणं तेन सेत्स्यन्ति अष्टविधमहर्द्धिप्राप्त्या भोत्स्यन्ते केवलज्ञानेन तत्त्वं मोक्ष्यन्ते काशैः परिनिर्वास्यन्ति- कर्मकृतविकारविरहाच्छीतीभविष्यन्ति, किमुक्तं भवति?- सर्वदुःखानामन्तं करिष्यन्ती ति॥१॥ सामान्यनयाश्रयणादेकतया वस्तून्यभिधायाधुना विशेषनयाश्रयणाद् द्वित्वेनाह दो दंडा पन्नत्ता, तं०- अट्ठादंडे चेव अणट्ठादंडे चेव, दुवे रासी पण्णत्ता, तंजहा-जीवरासी चेव अजीवरासी चेव, दुविहे बंधणे पन्नत्ते, तंजहा- रागबंधणे चेव दोसबंधणे चेव, पुवाफग्गुणीनक्खत्ते दुतारे प०, उत्तराफग्गुणी नक्खत्ते दुतारे प०, पुव्वाभद्दवया 7 देवीना०.......स्थितिः (मु०)। 0 यस्य यावन्तिः सागरोपमाणि स्थितिस्तस्य तावद्भिः पक्षैः। उच्छासो देवानां वर्षसहस्रैराहारः॥ 0 मोक्षन्ति कर्मराशेः (मु०)। सागराई ठिई (प्र०) ठिइ (मु०)। // 12 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy