SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् | // 11 // सूत्रम् 1 १समवायः आत्मानात्मादिः प्रस्तटे उत्कृष्टा स्थितिरिति / असुरिन्दवज्जियाणं ति चमरबलिवर्जितानां भोमेजाणं ति भवनवासिनां भूमौ पृथिव्यां रत्नप्रभाभि-8 धानायां भवत्वात्तेषामिति, तेषां चैकं पल्योपमं मध्यमा स्थितिर्यत उत्कृष्टा देशोने द्वे पल्योपमे सा, आह च- दाहिण दिवड्ड पलियं दो देसूणुत्तरिल्लाणं (बृहत्सं० गा० 5) ति, असंखेज्जे त्यादि, असङ्खयेयानि वर्षाण्यायुर्येषां ते तथा ते च ते संज्ञिनश्चसमनस्कास्तेच ते पञ्चेन्द्रियतिर्यग्योनिकाश्चेत्यसङ्खयेयवर्षायुः संज्ञिपञ्चेन्द्रियतिर्यग्योनिकास्तेषां केषाञ्चिद्ये हेमवतैरण्यवतवर्षयोरुत्पन्नास्तेषामेकं पल्योपमं स्थितिः, एवं मनुष्यसूत्रमपि, नवरंग:-गर्भाशये व्युत्क्रान्तिः- उत्पत्तिर्येषां तेगर्भव्युत्क्रान्तिका न समूर्च्छनजा इत्यर्थः ।वाणमंतराणं देवाणं ति, देवानामेव न तु देवीनाम्, तासामर्द्धपल्योपमस्य प्रतिपादितत्वात्, जोइसियाणं देवाणं ति चन्द्रविमानदेवानाम्, न सूर्यादिदेवानाम्, नापि चन्द्रादिदेवीनाम्, पलियं च सयसहस्सं चन्दाणवि आउयं जाण इतिवचनात्, सोहम्मे कप्पे देवाणं ति इह देवशब्देन देवा देव्यश्च गृहीताः, सौधर्मे हि पल्योपमाद्धीनतरा स्थितिर्जघन्यतोऽपि नास्ति, इयं च प्रथमप्रस्तटेऽवसेया, सोहम्मे कप्पे अत्थेगइयाणं देवाणं एगं सागरोवम मिति, अत्र देवानामेव ग्रहणं न देवीनाम्, उत्कृष्टतोऽपि तत्र तासां पञ्चाशत्पल्योपमस्थितिकत्वात्, तथा एकं सागरोपममिति मध्यमस्थित्यपेक्षया, उत्कर्षतस्तत्र सागरोपमद्वयसद्भावात्, प्रस्तटापेक्षया त्वेषां सप्तमप्रस्तटे मध्यमावसेया। ईसाणे कप्पे देवाण मित्यत्र देवग्रहणेन देवा देव्यश्च गृह्यन्ते, यतस्तत्र सातिरेकपल्योपमादन्या जघन्यतः स्थितिरेव नास्ति, ईसाणे कप्पे देवाणं अत्थेगइयाण मित्यत्र देवानामेव ग्रहणं न देवीनाम्, तत्र तासामुत्कर्षतोऽपि पञ्चपञ्चाशत्पल्योपमस्थितिकत्वादिति, तथा ये देवाः सागरं-सागराभिधानमेवं दाक्षिणात्यानां सार्धं पल्योपमं द्वे देशोने उत्तरत्यानाम् / ॐ पल्योपमं च शतसहस्राधिकं चन्द्राणामप्यायुर्जानीहि। देवानामेव ग्रहणं न तु देवीनाम्, तत्र तासां सागरोपमं स्थितिरिति (प्र०)। // 11 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy