________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 10 // सूत्रम् १समवायः आत्मानात्मादिः वा / तथैको लोकः, त्रिविधोऽप्यसङ्ख्येयप्रदेशोऽपि वा द्रव्यार्थतया / तथा एकोऽलोकः, अनन्तप्रदेशोऽपि द्रव्यार्थतया, अथवैते लोकालोकयोर्बहुत्वव्यवच्छेदनपरे सूत्रे, अभ्युपगम्यन्ते च कैश्चिद्बहवो लोकाः, अतस्तद्विलक्षणा अलोका अपि तावन्त एवेति, एवं सर्वत्र गमनिका कार्या। नवरं धर्मो- धर्मास्तिकायः, अधर्मः- अधर्मास्तिकायः, पुण्यं- शुभं कर्म, पापंअशुभं कर्म, बन्धो- जीवस्य कर्मपुद्गलसंश्लेषः, स चैकः सामान्यतः, सर्वकर्मबन्धव्यवच्छेदावसरे वा पुनर्बन्धाभावाद्, अनेनोद्देशेन मोक्षाश्रवसंवरवेदनानिर्जराणामप्येकत्वमवसेयमिति / इह चानात्मग्रहणेन सर्वेषामनुपयोगवतामेकत्वं प्रज्ञाप्य पुनर्लोकादितया यदेकत्वप्ररूपणं तत्सामान्यविशेषापेक्षमवगन्तव्यमिति / एवं चात्मादीनां सकलशास्त्रप्रपञ्झ्यानामर्थानां प्रत्येकमेकत्वमभिधाय अधुनाऽऽत्मानात्मपरिणामरूपाणामर्थानां तदेवाह- जम्बू इत्यादि सूत्रसप्तकमाश्रयविशेषाणां तथा इमीसे णमि त्यादिसूत्राष्टादशकमाश्रयिणां स्थित्यादिधर्माणां प्रतिपादनपरं सुबोधम्, नवरं जम्बुद्दीवे दीवे इह सूत्रे आयामविक्खंभेणं ति क्वचित्पाठो दृश्यते, क्वचित्तु चक्कवालविक्खंभेणं ति तत्र प्रथमः सम्भवति, अन्यत्रापि तथा श्रवणात्, सुगमश्च, द्वितीयस्त्वेवं व्याख्येयः- चक्रवालविष्कम्भेण- वृत्तव्यासेन, इदं च प्रमाणयोजनमवसेयम्, यदाह-आयङ्गुलेण वत्थु उस्सेहपमाणओ मिणसु देहं / नगपुढविविमाणाई मिणसु पमाणगुलेणं तु॥१॥(बृहत्सं० गा०३४९) तथा पालक-यानविमानं सौधर्मेन्द्रसम्बन्ध्याभियोगिकपालकाभिधानदेवकृतं वैक्रियम्, यानं-गमनंतदर्थं विमानं यायते वाऽनेनेति यानंतदेव विमानं यानविमानं पारियानिकमिति यदुच्यते, अत्थी त्यादि, अस्ति- विद्यते एकेषां- केषाञ्चिन्नैरयिकाणामेकं पल्योपमं स्थितिरितिकृत्वा प्रज्ञप्ता प्रवेदिता मया अन्यैश्च जिनैः, सा च चतुर्थे प्रस्तटे मध्यमाऽवसेयेति, एवमेकं सागरोपमं त्रयोदशे प्रवन्ध्यानाम० (प्र०) प्रपश्चाना० (मु०)।-नात्मपरि (मु०) 0 आत्माङ्गुलेन वस्तु उत्सेधाङ्गुलप्रमाणतो मिनु देहम् / नगपृथ्वीविमानानि मिनु प्रमाणाङ्गुलेनैव //