________________ श्रीसमवायात्र श्रीअभय० वृत्तियुतम् // 9 // सूत्रम् १समवायः आत्मानात्मादिः द्वादशाकंज्ञानादिगुणरत्नसर्वस्वाधारकल्पं भवतीति भावः, प्रज्ञप्तं तीर्थकरनामकर्मोदयवर्तितया प्रायः कृतार्थेनापि परोपकाराय प्रकाशितम्, तद्यथे त्युदाहरणोपदर्शने, आचार इत्यादि द्वादश पदानि वक्ष्यमाणनिर्वचनानीति कण्ठ्यानि, तत्थ णं ति तत्र द्वादशाङ्गे, णमित्यलङ्कारे यत्तच्चतुर्थमङ्गं समवाय इत्याख्यातं तस्यायमर्थः- आत्मादिः अभिधेयो भवतीति गम्यते, तद्यथे ति वाचनान्तरद्वितीयसंबन्धसूत्रव्याख्येति। इह च विदुषा पदार्थसार्थमभिदधता सक्रम एवासावभिधातव्य इति न्यायः, तत्राचार्य एकत्वादिसङ्ख्याक्रमसंबद्धानर्थान् वक्तुकाम आदावेकत्वविशिष्टानात्मनश्च सर्वपदार्थभोजकत्वेन प्रधानत्वादात्मादीन् सर्वस्य वस्तुनःसप्रतिपक्षत्वेन सप्रतिपक्षान्एगे आया इत्यादिभिरष्टादशभिः सूत्रैराह, स्थानाङ्गोक्तार्थानि चैतानि प्रायस्तथापि किश्चिदुच्यते- एक आत्मा, कथञ्चिदिति गम्यते, इदं च सर्वसूत्रेष्वनुगमनीयम्, तत्र प्रदेशार्थतया असङ्ख्यातप्रदेशोऽपि जीवो द्रव्यार्थतया एकः, अथवा प्रतिक्षणं पूर्वस्वभावक्षयापरस्वरूपोत्पादयोगेनानन्तभेदोऽपि * कालत्रयानुगामिचैतन्यमात्रापेक्षया एक एव आत्मा, अथवा प्रतिसन्तानं चैतन्यभेदेनानन्तत्वेऽप्यात्मनां सङ्ग्रहनयाश्रितसामान्यरूपापेक्षयैकत्वमात्मन इति। तथा न आत्मा अनात्मा-घटादिपदार्थः, सोऽपि प्रदेशार्थतया सङ्खयेयासङ्खयेयानन्तप्रदेशोऽपि तथाविधैकपरिणामरूपद्रव्यार्थापेक्षया एक एव, एवं सन्तानापेक्षयाऽपि, तुल्यरूपापेक्षया तु अनुपयोगलक्षणैकस्वभावयुक्तत्वात्कथञ्चिद्भिन्नस्वरूपाणामपि धर्मास्तिकायादीनामनात्मनामेकत्वमवसेयमिति। तथा एको दण्डो दुष्प्रयुक्तमनोवाक्कायलक्षणो हिंसामानं वा, एकत्वं चास्य सामान्यनयादेशाद्, एवं सर्वत्रैकत्वमवसेयम् / तथैकोऽदण्डः-प्रशस्तयोगत्रयमहिंसामात्रंवा। तथैका क्रिया-कायिक्यादिका आस्तिक्यमानं वा। तथैका अक्रिया योगनिरोधलक्षणा नास्तिकत्वं O०पक्षानेव (प्र०)। // 9 //