________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् | // 8 // सूत्रम् 1 १समवायः आत्मानात्मादिः रूपानरातीनिति जिनस्तेन, रागादिजयश्चास्य रागादिस्वरूपतज्जयोपायज्ञानपूर्वक एव भवतीत्येतदस्याह-जानाति छाद्मस्थिकज्ञानचतुष्टयेनेति ज्ञायकस्तेन, अनन्तरमस्य स्वार्थसम्पत्त्युपाय उक्तः, अधुना स्वार्थसम्पत्तिपूर्वकं परार्थसम्पादकत्वं विशेषणषट्केनाह- तीर्ण इव तीर्णः, संसारसागरमिति गम्यते तेन, तथा तारयति परानप्युपदेशवर्त्तिन इति तारकस्तेन, तथा बुद्धेन जीवादितत्त्वम्, तथा बोधकेन जीवादितत्त्वमेवपरेषाम्, तथा मुक्तेन बाह्याभ्यन्तरग्रन्थबन्धनात्, मोचकेन तत एव परेषाम्, तथा मुक्तत्वेऽपि सर्वज्ञेन सर्वदर्शिना, न तु मुक्तावस्थायां दर्शनान्तराभिमतपुरुषेणेव भाविजडत्वेन, तथा शिवं सर्वाबाधारहितत्वात्, अचलं स्वाभाविकप्रायोगिकचलनहेत्वभावात्, अरुजं- अविद्यमानरोगम्, शरीरमनसोरभावात्, अनन्तमनन्तार्थविषयज्ञानस्वरूपत्वात्, अक्षयं- अनाशं साद्यपर्यवसितस्थितिकत्वात्, अक्षतं वा परिपूर्णत्वात् पूर्णिमाचन्द्रमण्डलवत्, अव्याबाधमपीडाकारित्वात् अपुनरावर्तकं अविद्यमानपुनर्भवावतारम्, तद्बीजभूतकर्माभावात् सिद्धिगतिरिति नामधेयं यस्य तत्सिद्धिगतिनामधेयम्, तिष्ठति यस्मिन् कर्मकृतविकाररहितत्वेन सदाऽवस्थितो भवति तत्स्थानं-क्षीणकर्मणो जीवस्य स्वरूपं लोकाग्रं वा, जीवस्वरूपविशेषणानि तु लोकाग्रस्याधेयधर्माणामाधारेऽध्यारोपादवसेयानि, तदेवंभूतं स्थानं संप्राप्तुकामेन- यातुमनसा न तु तत्प्राप्तेन, तत्प्राप्तस्याकरणत्वेन प्रज्ञापनाऽभावात्, प्राप्तुकामेनेति च यदुच्यते तदुपचाराद्, अन्यथा हि निरभिलाषा एव भगवन्तः केवलिनो भवन्ति, मोक्षे भवे च सर्वत्र, निःस्पृहो मुनिसत्तमइति वचनादिति / तदेवमगणितगुणगणसम्पदुपेतेन भगवता इमं ति इदंच वक्ष्यमाणतया प्रत्यक्षमासन्नंच द्वादशाङ्गानि यस्मिंस्तद्वादशाङ्गंगणिनःआचार्यस्य पिटकमिव पिटकं गणिपिटकम्, यथा हि वालञ्जुकवाणिजकस्य पिटकं सर्वस्वाधारभूतं भवति एवमाचार्यस्य "ज्ञापक० (मु०)10०मेवापरेषां......ग्रन्थिबन्ध० (मु०)।