SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ पवाया श्रीअभय वृत्तियुतम् // 7 // सूत्रम् १समवायः आत्मानात्मादिः दया यस्य स जीवदयोऽतस्तेन, इदं चानन्तरोक्तं विशेषणकदम्बकं भगवतो धर्ममयमूर्तित्वात्सम्पन्नमिति धर्मात्मकतामस्य विशेषणपञ्चकनाह- धर्म- श्रुतचारित्रात्मकं दुर्गतिप्रपतज्जन्तुधरणस्वभावं दयते- ददातीति धर्मदयस्तेन, तद्दानं चास्य तद्देशनादेवेत्यत आह-धर्म- उक्तलक्षणं देशयति- कथयतीति धर्मदेशकस्तेन, धर्मदेशकत्वं चास्य धर्मस्वामित्वे सति न पुनर्यथा नटस्येति दर्शयन्नाह- धर्मस्य- क्षायिकज्ञानदर्शनचारित्रात्मकस्य नायक:- स्वामी यथावत्पालनाद्धर्मनायकस्तेन, तथा धर्मस्य सारथिर्धर्मसारथिः, यथा रथस्य सारथी रथं रथिकमश्वांश्च रक्षति एवं भगवांश्चारित्रधर्माङ्गानां संयमात्मप्रवचनाख्यानां रक्षणोपदेशाद्धर्मसारथिर्भवतीति तेन धर्मसारथिना, तथा त्रयः समुद्राश्चतुर्थो हिमवान् एते चत्वारः अन्ताः पृथिव्याः पर्यन्तास्तेषु स्वामितया भवतीति चातुरन्तः स चासौ चक्रवर्ती च चातुरन्तचक्रवर्ती वरश्चासौ चातुरन्तचक्रवर्ती चेति वरचातुरन्तचक्रवर्ती-राजातिशयः धर्मविषये वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती, यथा हि पृथिव्यां शेषराजातिशायी वरचातुरन्तचक्रवर्ती भवति तथा भगवान् धर्मविषये शेषप्रणेतॄणांमध्ये सातिशयत्वात् तथोच्यत इति तेन धर्मवरचातुरन्तचक्रवर्त्तिना, एतच्च धर्मदायकत्वादिविशेषणपञ्चकं प्रकृष्टज्ञानादियोगे सति भवतीत्यत आह-अप्रतिहते-कटकुड्यपर्वतादि-8 भिरस्खलिते अविसंवादके वा अत एव क्षायिकत्वाद्वा वरे- प्रधाने ज्ञानदर्शने केवललक्षणे धारयतीति अप्रतिहतवरज्ञानदर्शनधरस्तेन, एवंविधसंवेदनसंपदुपेतोऽपि छद्मवान् मिथ्योपदेशित्वान्नोपकारीति निश्छद्मताप्रतिपादनायास्याह, अथवा कथमस्याप्रतिहतसंवेदनत्वं सम्पन्नं?, अत्रोच्यते, आवरणाभावाद्, एतदेवाह-व्यावृत्तं- निवृत्तमपगतं छद्म- शठत्वमावरणं वा यस्य स तथा तेन व्यावृत्तछाना, मायावरणयोश्चाभावोऽस्य रागादिजयाज्जात इत्यत आह- जयति- निराकरोति रागद्वेषादि®तामस्यान्यविशे० (मु०)। (c) धारण (मु०)। 0 अन्ताः-पर्यन्ताः (मु०)।
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy