SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 6 // सूत्रम् १समवायः आत्मानात्मादिः हितः- आत्यन्तिकतद्रक्षाप्रकर्षप्ररूपणेनानुकूलवृत्तिर्लोकहितस्तेन, यदेतन्नाथत्वं हितत्वंवा तद्भव्यानां यथावस्थितसमस्तवस्तुस्तोमप्रदीपनेन नान्यथेत्याह- लोकस्य विशिष्टतिर्यग्नरामररूपस्यान्तरतिमिरनिकरनिराकरणेन प्रकृष्टपदार्थप्रकाशकारित्वत्प्रदीप इव प्रदीपो लोकप्रदीपस्तेन, इदं च विशेषणं द्रष्टुलोकमाश्रित्योक्तम्, अथ दृश्यं लोकमाश्रित्याह- लोकस्यलोक्यते इति लोक इति व्युत्पत्त्या लोकालोकरूपस्य समस्तवस्तुस्तोमस्वभावस्याखण्डमार्तण्डमण्डलमिव निखिलभावस्वभावावभासनसमर्थकेवलालोकपूर्वकप्रवचनप्रभापटलप्रवर्तनेन प्रद्योतं-प्रकाशं करोतीत्येवंशीलो लोकप्रद्योतकरस्तेन, ननु लोकनाथत्वादिविशेषणयोगी हरिहरहिरण्यगर्भादिरपि तत्तीर्थिकमतेन सम्भवतीति कोऽस्य विशेष इत्याशङ्कायांतद्विशेषाभिधानायाह- न भयं दयते प्राणापहरणरसिकोपसर्गकारिण्यपि प्राणिनि ददातीत्यभयदयः, अभया वा- सर्वप्राणिभयपरिहारवती दया घृणा यस्य सोऽभयदयों, हरिहरादिस्तु नैवमिति, तेनाभयदयेन, न केवलमसावपकारकारिणामप्यनर्थपरिहारमात्रं करोति अपि त्वर्थप्राप्तिं करोतीति दर्शयन्नाह-चक्षुरिव चक्षुः- श्रुतज्ञानं शुभाशुभार्थविभागकारित्वात्तद्दयते इति चक्षुर्दयस्तेन, यथा हि लोके चक्षुर्दत्त्वा वाञ्छितस्थानमार्ग दर्शयन् महोपकारी भवत्येवमिहापीति दर्शयन्नाह- मार्गसम्यग्दर्शनज्ञानचारित्रात्मकं परमपदपथं दयत इति मार्गदयस्तेन, यथा हि लोके चक्षुरुद्धाटनं मार्गदर्शनं च कृत्वा चौरादिविलुप्ता निरुपद्रवं स्थान प्रापयन् परमोपकारी भवति एवमिहापीति दर्शयन्नाह-शरणं-त्राणमज्ञानोपद्रवोपद्रुताना तद्रक्षास्थानं तच्च परमार्थतो निर्वाणं तद्दयत इति शरणदयस्तेन, यथा हि लोके चक्षुर्मार्गशरणदानात् दुःस्थानां जीवितव्यं ददाति एवमिहापीति दर्शयन्नाह-जीवनं जीवो- भावप्राणधारणममरणधर्मत्वमित्यर्थस्तं दयत इति जीवदयो जीवेषु वा 0कूलवर्ती लोक० (मु०)। 7 तद्भव्यात्मनां (प्र०)। (c) दृश्यलोक० (मु०)। 0 यस्यासावभ० (मु०)। 9वोपहता० (मु०)। // 6
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy