SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् // 5 // सूत्रम्१ १समवायः आत्मानात्मादिः तीर्थं प्रवचनम्, तदव्यतिरेकादिह सङ्घस्तीर्थं तस्य करणशीलत्वात्तीर्थकरस्तेन, तीर्थकरत्वं च तस्य नान्योपदेशबुद्धत्वपूर्वकमित्यत आह- स्वयं- आत्मनैव नान्योपदेशतः, सम्यग्बुद्धो हेयोपादेयवस्तुतत्त्वं विदितवानिति स्वयंसंबुद्धस्तेन, स्वयंसंबुद्धत्वं चास्य न प्राकृतस्येवासंभाव्य पुरुषोत्तमत्वादस्येत्यत आह-पुरुषाणांमध्ये तेन तेनातिशयेन रूपादिनोद्गतत्वाद् ऊर्ध्ववर्त्तित्वादुत्तमः पुरुषोत्तमस्तेन, अथ पुरुषोत्तमत्वमेव सिंहाद्युपमानत्रयेणास्य समर्थयन्नाह- सिंह इव सिंहः पुरुषश्चासौ सिंहश्चेति पुरुषसिंहः, लोकेन हि सिंहे शौर्यमतिप्रकृष्टमभ्युपगतमतः शौर्येस उपमानं कृतः,शौर्यं तु भगवतो बाल्ये प्रत्यनीकदेवेन भाग्यमानस्याप्यभीतत्वात् कुलिशकठिनमुष्टिप्रहारप्रहत प्रवर्द्धमानामरशरीरकुब्जताकरणाच्च इत्यतस्तेन, तथा वरं च तत्पुण्डरीकं च वरपुण्डरीकं- धवलं सहस्रपत्रं पुरुष एव वरपुण्डरीकं पुरुषवरपुण्डरीकम्, धवलता चास्य भगवतः सर्वाशुभमलीमसरहितत्वात् सर्वैश्च शुभैरनुभावैः शुभत्वादित्यतस्तेन, तथा वरश्चासौगन्धहस्ती च वरगन्धहस्ती पुरुष एव वरगन्धहस्ती पुरुषवरगन्धहस्ती, यथा गन्धहस्तिनोगन्धेनैव सर्वगजाभज्यन्ते तथा भगवतस्तद्देशविहरणेन ईतिपरचक्रदुर्भिक्षजनमरकादीनि दुरितानि शतयोजनमध्ये नश्यन्तीति अतस्तेन पुरुषवरगन्धहस्तिना, न भगवान् पुरुषाणामेवोत्तमः किन्तु सकलजीव-8 लोकस्यापीत्यत आह- लोकस्य-तिर्यग्नरनरकिनाकिलक्षणजीवलोकस्योत्तमः- चतुस्त्रिंशद्रुद्धातिशयाद्यसाधारणगुणगणोपेततया सकलसुरासुरखचरनरनिकरनमस्यतया च प्रधानो लोकोत्तमस्तेन, लोकोत्तमत्वमेवास्य पुरस्कुर्वन्नाह-लोकस्यसंज्ञिभव्यलोकस्य नाथः,- प्रभुर्लोकनाथस्तेन, नाथत्वं चास्य योगक्षेमकृन्नाथ इति वचनादप्राप्तस्य सम्यग्दर्शनादेर्योगकरणेन. लब्धस्य तस्यैव पालनेन चेति, लोकनाथत्वं च तात्त्विकं तद्धितत्वे सति सम्भवतीत्याह-लोकस्य- एकेन्द्रियादिप्राणिगणस्य ®स्येव संभाव्यं (मु०)। ॐ प्रहति० (मु०)। 0 शुद्धत्वा० (मु०)। 0 जनडमर० (मु०)। 9 नरनारकनाकि० (मु०)। // 5
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy