________________ श्रीसमवायाङ्गं श्रीअभय० वृत्तियुतम् // 252 // सूत्रम् 152 शरीरावधिवेदनालेश्याऽऽहारसूत्रम् कथं?, नरकात्पातालकलशस्य सहस्रमानं कुड्यं भित्त्वा तत्र मत्स्यतयोत्पद्यमानस्य, उत्कर्षेण तु अधःसप्तमी यावत् सप्तम पृथिवीनारकं समुद्रादिमत्स्येषूत्पद्यमानं प्रतीत्य, तिर्यक् स्वयम्भूरमणं यावत् ऊर्ध्वं पण्डकवनपुष्करिणीं यावत्, यतस्तयोकारक उत्पद्यते, न परतः, मनुष्यस्य लोकान्तं यावत्, भवनपतिव्यन्तरज्योतिष्कसौधर्मेशानदेवानांजघन्यतोऽङ्गलासंख्येयभागः स्वस्थान एव पृथिव्यादितयोत्पादात्, उत्कर्षतस्तु अधस्तृतीयपृथिवी यावत् तिर्यक् स्वयम्भूरमणबहिर्वेदिकान्तं ऊर्ध्वमीषत्प्राग्भारां यावत्, यत एते शुभपर्याप्तबादरेष्वेव पृथिव्यादिषूत्पद्यन्ते अतोन परतोऽपीति, सनत्कुमारादिसहस्रारान्तदेवानांतु जघन्यतोऽङ्गलासंख्येयभागः, कथं?, पण्डकवनादिपुष्करिणीमज्जनार्थमवतारे मृतस्य तत्रैव मत्स्यतयोत्पद्यमानत्वात् पूर्वसम्बन्धिनी वा मनुष्योपभुक्तस्त्रियं परिष्वज्य मृतस्य तद्गर्भे समुत्पादादिति, उत्कर्षतस्तु अधो यावन्महापातालकलशानां द्वितीयस्त्रिभागः, तत्र हि जलसद्भावान्मत्स्येषूत्पद्यमानत्वात्, तिर्यक् स्वयम्भूरमणसमुद्रं यावत्, ऊर्ध्वमच्युतं यावत्, तत्र हि सङ्गतिकदेवनिश्रया गतस्य मृत्वेहोत्पद्यमानत्वादिति, आनतादीनामच्युतान्तानां तु जघन्यतोऽङ्गलासंख्येयभागः, कथं?, इहागतस्य मरणकालविपर्यस्तमतेर्मनुष्योपभुक्तस्त्रियमभिष्वज्य मृतस्य तत्रैवोत्पत्तेरिति, उत्कर्षतस्त्वधो यावदधोलोकग्रामान् तिर्यजनुष्यक्षेत्रे ऊर्ध्वमच्युतविमानानि यावत् मनुष्येष्वेवोत्पद्यन्ते एते इति भावना तथैव कार्या, ग्रैवेयकानुत्तरोपपातिकदेवानां जघन्यतो विद्याधरश्रेणीयावत् उत्कर्षतोऽधोयावदधोलोकग्रामा तिर्यमनुष्यक्षेत्रंऊर्ध्वंतद्विमानान्येवेति, एवं कार्मणस्याप्यवगाहना दृश्या समानत्वादेतयोरिति / उक्तार्थमेव सूत्रांशमाह-गेवेजगस्स ण मित्यादि / अनन्तरं शरीरिणामवगाहनाधर्म उक्तोऽधुना त्ववधिधर्मप्रतिपादनायाह- भेय विसयसंठाणे अभिंतर बाहिरे य देसोही। ओहिस्स वुड्डिहाणी पडिवाई चेव अपडिवाई ॥१॥द्वारगाथा, तत्र भेदोऽवधेर्वक्तव्यो, यथा द्विविधोऽवधि:- भवप्रत्ययःक्षायोपशमिकश्च, तत्र भवप्रत्ययो देवनारकाणां नाच // 252 //