________________ श्रीसमवायाङ्ग श्रीअभय० वृत्तियुतम् / / / 253 // सूत्रम् 152 शरीरावधिवेदनालेश्याऽऽहारसूत्रम् क्षायोपशमिको मनुष्यतिरश्चामिति, तथा विषयो- गोचरोऽवधेर्वाच्यः, स च चतुर्द्धा- द्रव्यतः क्षेत्रतः कालतो भावतश्च, तत्र द्रव्यतो जघन्येन तेजोभाषयोरग्रहणप्रायोग्यानि द्रव्याणि जानाति, उत्कर्षतस्तु सर्वमेकाणुकाद्यनन्ताणुकान्तं रूपिद्रव्यजातं जानाति, क्षेत्रं जघन्यतोऽङ्गलासंख्येयभागं जानाति उत्कर्षतोऽसंख्येयान्यलोके लोकमात्राणि खण्डानि जानाति, कालं जघन्यत आवलिकाया असंख्येयभागमतीतमनागतं च जानाति, उत्कर्षतः संख्यातीता उत्सर्पिण्यवसर्पिणीर्जानाति, भावान् / जघन्यतः प्रतिद्रव्यं चतुरो वर्णादीन् उत्कर्षतः प्रतिद्रव्यमसंख्येयान् सर्वद्रव्यापेक्षया त्वनन्तानिति, तथा संस्थानमवधेर्वाच्यम्, यथा नारकाणां तप्राकारोऽवधिः पल्याकारो भवनपतीनां पटहाकारो व्यन्तराणां झल्लाकृतियोतिष्काणां मृदङ्गाकारः कल्पोपपन्नानां पुष्पावलीरचितशिखरचङ्गेर्याकारो ग्रैवेयकाणां कन्याचोलकसंस्थानोऽनुत्तरसुराणां लोकनाड्याकृतिरित्यर्थः, तिर्यमनुष्याणां तु नानासंस्थान इति, तथा अब्भंतर त्ति के अवधिप्रकाशितक्षेत्रस्याभ्यन्तरे वर्तन्ते इति वाच्यम्, तत्र नेरइयदेवतित्थंकरा य ओहिस्सऽबाहिरा हुंती (आव० नि० 66) त्यादि, तथा बाहिरे त्ति केऽवधिक्षेत्रस्य बाह्या भवन्तीति वाच्यम्, तत्र शेषा जीवा बाह्यावधयोऽभ्यन्तरावधयश्च भवन्ति, तथा देसोहि त्ति अवधिप्रकाश्यवस्तुनो देशप्रकाशी अवधिर्देशावधिः स केषां भवतीति वाच्यम्, तद्विपरीतस्तु सर्वावधिः, तत्र मनुष्याणां उभयमन्येषां देशावधिरेव, यतः सर्वावधिः केवलज्ञानलाभप्रत्यासत्तावेवोत्पद्यत इति, तथाऽवधेर्वृद्धिर्हानिश्च वाच्या, यो येषां भवति, तत्र तिर्यग्मनुष्याणां वर्द्धमानो हीयमानश्च भवति,शेषाणामवस्थित एवं, तत्र वर्द्धमानोयोऽङ्गलासंख्येयभागादिदृष्टा बहु बहुतरं पश्यति, विपरीतस्तु हीयमान इति, तथा प्रतिपाती चाप्रतिपाती चावधिर्वाच्यः, तत्रोत्कर्षतो लोकमात्रः प्रतिपाती ततः परमप्रतिपाती, तत्र 7 स्थित एष....मानोऽङ्गुला० (मु०)। 0 पात्यतः परम० (मु०)।