SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ सूत्रम् 150 श्रीसमवाया श्रीअभय० वृत्तियुतम् ||244 // वर्णनम् भित्त्यादिषु पुण्ड्राणि रत्नमयाश्च ये अर्द्धचन्द्रा द्वाराग्रादिषु तैश्चित्रा ये ते विकसितशतपत्रपुण्डरीकतिलकरत्नार्द्धचन्द्रचित्रास्तथा अन्तर्बहिश्च श्लक्ष्णा मसृणा इत्यर्थः, तथा तपनीयं- सुवर्णविशेषस्तन्मय्या वालुकायाः- सिकतायाः प्रस्तटः-प्रतरो येषु ते तपनीयवालुकाप्रस्तराः, पाठान्तरे तु सण्हशब्दस्य वालुकाविशेषणत्वात् श्लक्ष्णतपनीयवालुकाप्रस्तटा इति व्याख्येयम्, तथा सुखस्पर्शाःशुभस्पर्शावा, तथा सश्रीकं-सशोभं रूपं-आकारो येषां अथवा सश्रीकाणि-शोभावन्तिरूपाणि-नरयुग्मादीनि रूपकाणि येषु ते सश्रीकरूपाः, प्रसादीया दर्शनीयाः, अभिरूपाः प्रतिरूपा इति पूर्ववत् / केवइए त्यादि, रत्नप्रभायाः पृथिव्या बहुसमरमणिज्जाओ भूमिभागाओ त्ति बहुसमरमणीयस्य भूमिभागस्य ऊर्द्ध- उपरि तथा चन्द्रमःसूर्यग्रहगणनक्षत्रतारारूपाणि णमित्यलङ्कारे किं?- वीइवइत्त त्ति व्यतिव्रज्य- व्यतिक्रम्येत्यर्थः, तारारूपाणि चेह तारका एवेति, तथा बहूनी त्यादि, किमित्याह- ऊर्द्ध- उपरि दूरमत्यर्थं व्यतिव्रज्य चतुरशीतिर्विमानलक्षाणि भवन्तीति सम्बन्धः, इतिमक्खाय त्ति इति- एवं प्रकारा अथवा यतो भवन्ति तत आख्याताः सर्ववेदिनेति, ते णं ति तानि विमानानि णमिति वाक्यालङ्कारे अच्चिमालिप्पभ. त्ति अर्चिालि:- आदित्यस्तद्वत्प्रभान्ति- शोभन्ते यानि तान्यर्चिालिप्रभाणि, तथा भासानां- प्रकाशानां राशि:भासराशि:- आदित्यस्तस्य वर्णस्तद्वदाभा- छाया वर्णो येषां केषांचित्तानि भासराशिवर्णाभानि, तथा अरय त्ति अरजांसि स्वाभाविकरजोरहितत्वात् नीरयत्ति नीरजांसि आगन्तुकरजोविरहात् निम्मलत्ति निर्मलानि कक्खट (कर्कश)- मलाभावात् वितिमिरत्ति वितिमिराणि आहार्यान्धकाररहितत्वात् विशुद्धानि स्वाभाविकतमोविरहात् सकलदोषविगमाद्वा सर्वरत्नमयानि नदादिदलमयानीत्यर्थः, अच्छान्याकाशस्फटिकवत् श्लक्ष्णानि सूक्ष्मस्कन्धमयत्वात् घृष्टानीवघृष्टानि खरशानया पाषाण (r) प्रासादीया (प्र०), प्रासादनीया (मु०)।७ अर्चिमाली (प्र०)10 कक्खड (मु०)। // 244 //
SR No.600440
Book TitleSamvayang Sutram
Original Sutra AuthorN/A
AuthorPunyakiritivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages300
LanguageSanskrit
ClassificationManuscript & agam_samvayang
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy