________________ श्रीसमवाया श्रीअभय० वृत्तियुतम् // 243 // सूत्रम् 150 भवनादिवर्णनम् भवंतीतिमक्खायंति, ते णं भवणा इत्यादि, द्वीपकुमारादीनां तु षण्णां प्रत्येकं षट्सप्ततिर्वाच्येति / केवइया णं भंते! पुढवी त्यादि गतार्थम्, नवरं मनुष्याणांसंख्यातानामेव गर्भव्युत्क्रान्तिकानां असंख्यातानामभावात् संख्याता एवावासाः, सम्मूर्छिमानांक त्वसंख्येयत्वेन प्रतिशरीरमावासभावादसंख्येया इति भावनीयमिति / केवइया णं भंते! जोइसियाणं विमाणावासा इत्यादि, अब्भुग्गयमूसियपहसिय त्ति अभ्युद्गता-संजाता उत्सृता- प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा-दीप्तिस्तया सिता:-शुक्ला इत्यभ्युद्गतोत्सृतप्रभासिताः, तथा विविधा- अनेकप्रकारा मणयः- चन्द्रकान्ताद्या रत्नानि- कर्केतनादीनि तेषां भक्तयोविच्छित्तिविशेषास्ताभिश्चित्रा- चित्रवन्त आश्चर्यवन्तो वेति विविधमणिरत्नभक्तिचित्राः, तथा वातोद्धृता- वायुकम्पिता विजयः- अभ्युदयस्तत्संसूचिका वैजयन्तीत्यभिधाना याः पताका अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना या वैजयन्त्यस्ताश्च तद्वर्जिताः पताकाश्च छत्रातिच्छत्राणि च- उपर्युपरिस्थितातपत्राणि तैः कलिता- युक्ता वातोद्भूतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलिता इति, तुङ्गा- उच्चैस्त्वगुणयुक्ता, अत एव गयणतलमणुलिहंतसिहर त्ति गगनतलंअम्बरमनुलिखद्-अभिलङ्घयच्छिखरं येषां ते गगनतलानुलिखच्छिखराः, तथा जालान्तरेषु-जालकमध्यभागेषु रत्नानि येषां तेजालान्तररत्नाः, इह प्रथमाबहुवचनलोपो द्रष्टव्यः, जालकानि च भवनभित्तिषु लोके प्रतीतान्येव तदन्तरेषु च शोभार्थं रत्नानि सम्भवन्त्येवेति, तथा पञ्जरोन्मीलिता इव- पञ्जरबहिष्कृता इव, यथा किल किञ्चिद्वस्तु पञ्जराद्- वंशादिमयप्रच्छादनविशेषाद्वहिःकृतमत्यन्तमविनष्टच्छायत्वाच्छोभते एवं तेऽपीति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिकाशिखरं येषां ते मणिकनकस्तूपिकाकाः, तथा विकसितानि यानि शतपत्रपुण्डरीकाणि द्वारादौ प्रतिकृतित्वेन तिलकाश्च 7 अम्बरतलमनु० (मु०)। // 243 //