________________ सूत्रम् 150 भवनादि श्रीसमवायात्र श्रीअभय० वृत्तियुतम् // 242 // वर्णनम् तानि सुगन्धिवरगन्धगन्धिकानि, तथा गन्धवर्तिः- गन्धद्रव्याणां गन्धयुक्तिशास्त्रोपदेशेन निर्वतिता गुटिका तद्भूतानि तत्कल्पानीति गन्धवर्तिभूतानि प्रवरगन्धगुणानीत्यर्थः, तथा अच्छानि आकाशस्फटिकवत् सण्ह त्ति श्लक्ष्णानि सूक्ष्मस्कन्धनिष्पन्नत्वात् श्लक्ष्णदलनिष्पन्नपटवत् लण्ह त्ति श्लक्ष्णानि मसृणानीत्यर्थः, घुण्टितपटवत्, घट्ठत्ति घृष्टानीवघृष्टानिखरशानया / पाषाणप्रतिमावत् मट्ठत्ति मृष्टानीव मृष्टानि सुकुमारशानया पाषाणप्रतिमेव शोधितानि वा प्रमार्जनिकयेव, अत एव नीरय त्ति नीरजांसि रजोरहितत्वात् निम्मल त्ति निर्मलानि कठिनमलाभावात् वितिमिर त्ति वितिमिराणि निरन्धकारत्वात् विसुद्ध त्ति विशुद्धानि निष्कलङ्कत्वान्न चन्द्रवत् सकलङ्कानीत्यर्थः, तथा सप्पह त्ति सप्रभाणि सप्रभावाणि अथवा स्वेन-आत्मना प्रभान्ति-शोभन्ते प्रकाशन्ते वेति स्वप्रभाणि यतः समिरीय त्ति समरीचीनि-सकिरणानि, अत एव सउज्जोय त्ति सहोद्योतेनवस्त्वन्तरप्रकाशनेन वर्त्तन्ते इति सोद्योतानि पासाईय त्ति प्रासादीयानि मनःप्रसत्तिकराणि दरिसणिज्ज त्ति दर्शनीयानि, तानि हि पश्यश्चक्षुषा न श्रमं गच्छतीति भावः, अभिरूव त्ति अभिरूपाणि कमनीयानि पडिरूव त्ति प्रतिरूपाणि द्रष्टारं द्रष्टारं प्रति रमणीयानि नैकस्य कस्यचिदेवेत्यर्थः, एव मित्यादि, यथाऽसुरकुमारावाससूत्रे तत्परिमाणमभिहितमेवमिति- तथा यद्भवनादिपरिमाणं यस्य नागकुमारादिनिकायस्य क्रमते- घटते तत्तस्य वाच्यमिति, किंविधं तत् परिमाणमत आह- जं जं गाहाहिं भणियं यद्यद् गाथाभिः चउसट्ठी असुराण मित्यादिकाभिरभिहितम्, किं परिमाणमेव तथा वाच्यं नेत्याह- तह चेव वण्णओत्ति यथा असुरकुमारे भवनानां वर्णक उक्तस्तथा सर्वेषामसौ वाच्य इति, तथाहि- केवइया णं भंते! नागकुमारावाससयसहस्सा पण्णता?, गोयमा! इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहेत्ता हेट्ठा वेग जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से एत्थ णं रयणप्पभाए (पुढवीए) चुलसीई नागकुमारावाससयसहस्सा // 242 //